न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ १८.१०॥
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ || 18.10||
न 0 द्वेष्टि III/1 अकुशलम् 2/1 कर्म 2/1 कुशले 7/1 न 0 अनुषज्जते III/1।
त्यागी 1/1 सत्त्व-समाविष्टः 1/1 मेधावी 1/1 च्छिन्नसंशयः 1/1 ॥ १८.१०॥
· न [na] = not = अव्ययम्
· द्वेष्टि [dveṣṭi] = despises = द्विष् (2P) to hate + लट्/कर्तरि/III/1
· अकुशलम् [akuśalam] = unpleasant (action) = अकुशल (n.) + adj. to कर्म 2/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to द्वेष्टि 2/1
· कुशले [kuśale] = in auspicious (action) = कुशल (n.) + अधिकरणे to अनुषज्जते 7/1
· न [na] = not = अव्ययम्
· अनुषज्जते [anuṣajjate] = clings = अनु + सज् (1A) to cling, attach + लट्/कर्तरि/III/1
· त्यागी [tyāgī] = the renunciate = त्यागिन् (m.) + कर्तरि to द्वेष्टि and अनुषज्जते 1/1
· सत्त्वसमाविष्टः [sattvasamāviṣṭaḥ] = endowed with purity = सत्त्वसमाविष्ट (m.) + adj. to त्यागी 1/1
· मेधावी [medhāvī] = one who has discriminative knowledge = मेधाविन् (m.) + adj. to त्यागी 1/1
· छिन्नसंशयः [chinnasaṃśayaḥ] = whose doubts are cut off = छिन्नसंशय (m.) + adj. to त्यागी 1/1
The renunciate (of the results of actions), (being) the one who is endowed with a pure mind, (thereafter being) the one who has discriminative knowledge and whose doubts are gone, does not despise unpleasant (to be done) karma, nor does he cling to auspicious karma.
Sentence 1:
त्यागी 1/1 सत्त्व-समाविष्टः 1/1 मेधावी 1/1 च्छिन्नसंशयः 1/1 अकुशलम् 2/1 कर्म 2/1 न 0 द्वेष्टि III/1 कुशले 7/1 न 0 अनुषज्जते III/1॥
The renunciate (त्यागी 1/1) (of the results of actions), (being) the one who is endowed with a pure mind (सत्त्व-समाविष्टः 1/1), (thereafter being) the one who has discriminative knowledge (मेधावी 1/1) and whose doubts are gone (च्छिन्नसंशयः 1/1), does not (न 0) despise (द्वेष्टि III/1) unpleasant (अकुशलम् 2/1) (to be done) karma (कर्म 2/1), nor (न 0) does he cling (अनुषज्जते III/1) to auspicious karma (कुशले 7/1).
यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं च नित्यं कर्म करोति, तस्य फलरागादिना अकलुषीक्रियमाणम् अन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति । तत् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति । तस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठा स्यात् , तत् वक्तव्यमिति आह —
न 0 द्वेष्टि III/1 अकुशलम् 2/1 अशोभनं काम्यं कर्म 2/1, शरीरारम्भद्वारेण संसारकारणम् , “किमनेन ? “ इत्येवम् । कुशले 7/1 शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन “मोक्षकारणम् इदम्” इत्येवं न 0 अनुषज्जते III/1 अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी 1/1 पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्व-समाविष्टः 1/1 यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी 1/1 मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः 1/1 छिन्नः अविद्याकृतः संशयः यस्य “आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , न अन्यत् किञ्चित्” इत्येवं निश्चयेन च्छिन्नसंशयः ॥
यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १८.१० ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.