उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३.२२ ॥
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ || 13.22 ||
उपद्रष्टा 1/1 अनुमन्ता 1/1 च 0 भर्ता 1/1 भोक्ता 1/1 महेश्वरः 1/1 ।
परमात्मा 1/1 इति 0 च 0 अपि 0 उक्तः 1/1 देहे 7/1 अस्मिन् 7/1 पुरुषः 1/1 परः 1/1 ॥ १३.२२ ॥
The ultimate seer, permitter, sustainer, enjoyer, limitless Lord (creator), and also called ‘limitless self ’, is the puruṣa, the person who is limitless, in this body.
The ultimate seer (उपद्रष्टा 1/1), permitter (अनुमन्ता 1/1 च 0), sustainer (भर्ता 1/1), enjoyer (भोक्ता 1/1), limitless Lord (महेश्वरः 1/1) (creator), and (च 0) also (अपि 0) called (उक्तः 1/1) ‘limitless self (परमात्मा 1/1 इति 0)’, is the puruṣa, the person (पुरुषः 1/1) who is limitless (परः 1/1), in this (अस्मिन् 7/1) body (देहे 7/1).
· उपद्रष्टा [upadraṣṭā] = the ultimate seer = उपद्रष्टृ m. + S.C. to पुरुषः 1/1
o उप + दृश् + तृच्
· अनुमन्ता [anumantā] = permitter = अनुमन्तृ m. + S.C. to पुरुषः 1/1
o अनु + मन् to permit + तृच्
· च [ca] = and = अव्ययम्
· भर्ता [bhartā] = sustainer = भर्तृ m. + S.C. to पुरुषः 1/1
o भृ to sustain + तृच्
· भोक्ता [bhoktā] = enjoyer = भोक्तृ m. + S.C. to पुरुषः 1/1
o भुज् to enjoy + तृच्
· महेश्वरः [maheśvaraḥ] = limitless Lord = महेश्वर m. + S.C. to पुरुषः 1/1
o महान् च असौ ईश्वरः च महेश्वरः (KT) ।
· परमात्मा [paramātmā] = limitless self = परमात्मन् (m.) + प्रातिपदिकार्थमात्रे 1/1
o परमः च असौ आत्मा च परमात्मा (KT) ।
· इति [iti] = thus = अव्ययम्
· च [ca] = and = अव्ययम्
· अपि [api] = also = अव्ययम्
· उक्तः [uktaḥ] = called = उक्त m. + S.C. to पुरुषः 1/1
o वच् to say + क्त
· देहे [dehe] = in the body = देह (m.) + अधिरकणे to पुरुषः 7/1
· अस्मिन् [asmin] = in this = इदम् m. + adj. to देहे 7/1
· पुरुषः [puruṣaḥ] = puruṣa = पुरुष (m.) + कर्तरि to (भवति) 1/1
· परः [paraḥ] = limitless = पर m. + S.C. to पुरुषः 1/1
अन्वयः
देहे 7/1 अस्मिन् 7/1 पुरुषः 1/1 उपद्रष्टा 1/1 अनुमन्ता 1/1 भर्ता 1/1 भोक्ता 1/1 महेश्वरः 1/1 च 0 परमात्मा 1/1 इति 0 च 0 अपि 0 उक्तः 1/1 परः 1/1 ॥
तस्यैव पुनः साक्षात् निर्देशः क्रियते —
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥
उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता, तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः, तेषां बाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परः अन्तरतमः नास्ति द्रष्टा ; सः अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृवद्वा सर्वविषयीकरणात् उपद्रष्टा । अनुमन्ता च, अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता च । अथवा, अनुमन्ता, कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते, तेन अनुमन्ता । अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता । भर्ता, भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम् , तत् चैतन्यात्मकृतमेव इति भर्ता आत्मा इति उच्यते । भोक्ता, अग्न्युष्णवत् नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते । महेश्वरः, सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः । परमात्मा, देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा । सः अतः ‘परमात्मा’ इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ । क्व असौ ? अस्मिन् देहे पुरुषः परः अव्यक्तात् , ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ (भ. गी. १५ । १७) इति यः वक्ष्यमाणः ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उपन्यस्तः व्याख्याय उपसंहृतश्च ॥ २२ ॥