तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्यात् योगमात्मविशुद्धये ॥६.१२॥
tatraikāgraṃ manaḥ kṛtvā
yatacittendriyakriyaḥ |
upaviśyāsane yuñjyāt yogamātmaviśuddhaye ||6.12||
तत्र 0 एकाग्रम्
2/1 मनः 2/1 कृत्वा 0
यतचित्तेन्द्रियक्रियः 1/1 ।
उपविश्य 0 आसने 7/1 युञ्ज्यात्
III/1 योगम् 2/1 आत्मविशुद्धये
4/1 ॥६.१२॥
·
तत्र [tatra] = there = अव्ययम्
·
एकाग्रम् [ekāgram] = one pointed= एकाग्र
(n.) + adjective to मनः 2/1
·
मनः [manaḥ] = seat = मनस् (n.) + कर्मणि to कृत्वा 2/1
·
कृत्वा [kṛtvā] = making = अव्ययम्
·
यतचित्तेन्द्रियक्रियः
[yatacittendriyakriyaḥ] = one who has mastered the mind and senses = यतचित्तेन्द्रियक्रिय
(m.) + कर्तरि to युञ्ज्यात् 1/1
o
चित्तं च
इन्द्रियाणि च चित्तेन्द्रियाणि (ID) ।
o
चित्तेन्द्रियाणां
क्रियाः चित्तेन्द्रियक्रियाः (6T) ।
o
यताः
चित्तेन्द्रियक्रियाः यस्य सः यतचित्तेन्द्रियक्रियः (116B) ।
·
उपविश्य [upaviśya] = sitting = अव्ययम्
o
उप + विश् to sit + ल्यप्
·
आसने [āsane] = on the seat = आसन (m.) + अधिकरणे to उपविश्य 7/1
·
युञ्ज्यात् [yuñjyāt] = may one practise = युज्
(7P) to appoint + विधिलिङ्/कर्तरि/III/1
·
योगम् [yogam] = meditation = योग (m.) + कर्मणि to युञ्ज्यात् 2/1
·
आत्मविशुद्धये
[ātmaviśuddhaye] = for
the purification of the mind = आत्मविशुद्धि (f.) + सम्प्रदाने to युञ्ज्यात् 4/1
there, sitting on the seat, making
one's mind one pointed (absorbed in the object of meditation), may the one who
has mastered the mind and senses practice meditation for the purification of
the mind.
Sentence 1:
तत्र 0 आसने 7/1 उपविश्य 0 मनः 2/1 एकाग्रम् 2/1 कृत्वा 0 यतचित्तेन्द्रियक्रियः 1/1
आत्मविशुद्धये 4/1 योगम् 2/1 युञ्ज्यात् III/1 ॥६.१२॥
There (तत्र 0), sitting (उपविश्य 0) on the seat (आसने 7/1), making (कृत्वा 0) one's mind (मनः 2/1) one pointed (एकाग्रम् 2/1) (absorbed in the
object of meditation), may the one who has mastered the mind and senses (यतचित्तेन्द्रियक्रियः 1/1) practice (युञ्ज्यात्
III/1) meditation (योगम् 2/1) for the purification of the mind (आत्मविशुद्धये 4/1).
प्रतिष्ठाप्य, किम्?
--
।।6.12।। --
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात्। कथम्? सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः
कृत्वा यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य सः
यतचित्तेन्द्रियक्रियः। स किमर्थं योगं युञ्ज्यात् इत्याह -- आत्मविशुद्धये अन्तःकरणस्य
विशुद्ध्यर्थमित्येतत्।।