मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३.१० ॥
mayi cānanyayogena bhaktiravyabhicāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi || 13.10 ||
मयि 7/1 च 0 अनन्ययोगेन 3/1 भक्तिः 1/1 अव्यभिचारिणी 1/1 ।
विविक्तदेशसेवित्वम् 1/1 अरतिः 1/1 जनसंसदि 7/1 ॥ १३.१० ॥
... and an unswerving devotion to Me that is not connected to anything else, the disposition of repairing to a quiet place, no longing for the company of people…
... and (च 0) an unswerving (अव्यभिचारिणी 1/1) devotion (भक्तिः 1/1) to Me (मयि 7/1) that is not connected to anything else (अनन्ययोगेन 3/1), the disposition of repairing to a quiet place (विविक्तदेशसेवित्वम् 1/1), no longing (अरतिः 1/1) for the company of people (जनसंसदि 7/1) …
· मयि [mayi] = to Me = अस्मद् m. + अधिकरणे to भक्तिः 7/1
· च [ca] = and = अव्ययम्
· अनन्ययोगेन [ananyayogena] = that is not connected to anything else = अनन्ययोग (m.) + करणे to भक्तिः 3/1
· भक्तिः [bhaktiḥ] = devotion = भक्ति (f.) + प्रातिपदिकार्थमात्रे 1/1
· अव्यभिचारिणी [avyabhicāriṇī] = an unswerving = अव्यभिचारिणी f. + adj. to भक्तिः 1/1
o वि + अभि + चर् + णिनिँ = व्यभिचारिन्
o व्यभिचारिन् + ङीप् 4.1.5 ऋन्नेभ्यो ङीप् । ~ स्त्रियाम्
o न व्यभिचारिणी अव्यभिचारिणी (NT) ।
· विविक्तदेशसेवित्वम् [viviktadeśasevitvam] = the disposition of repairing to a quiet place = विविक्तदेशसेवित्व (n.) + प्रातिपदिकार्थमात्रे 1/1
o विविक्तः देशः विविक्तदेशः (KT) ।
o विविक्तदेश + ङस् + सेव् + णिनिँ 3.2.78 सुप्यजातौ णिनिस्ताच्छील्ये । = विविक्तदेशसेविन्
o विविक्तदेशसेविन् + ङस् + त्व
· अरतिः [aratiḥ] = no longing = अरति (f.) + प्रातिपदिकार्थमात्रे 1/1
· जनसंसदि [janasaṃsadi] = for the company of people = जनसंसद् + अधिकरणे to अरतिः 7/1
o जनानां संसद् जनसंसद् (6T), तस्मिन् ।
किञ्च —
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥
मयि च ईश्वरे अनन्ययोगेन अपृथक्समाधिना ‘न अन्यो भगवतो वासुदेवात् परः अस्ति, अतः स एव नः गतिः’ इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्तदेशसेवित्वम् , विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शीलमस्य इति विविक्तदेशसेवी, तद्भावः विविक्तदेशसेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते । अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते । अरतिः अरमणं जनसंसदि, जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् ; न संस्कारवतां विनीतानां संसत् ; तस्याः ज्ञानोपकारकत्वात् । अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम् ॥ १० ॥