प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३.२९ ॥
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 13.29 ||
प्रकृत्या 3/1 एव 0 च 0 कर्माणि 2/3 क्रियमाणानि 2/3 सर्वशः 0 ।
यः 1/1 पश्यति III/1 तथा 0 आत्मानम् 2/1 अकर्तारम् 2/1 सः 1/1 पश्यति III/1 ॥ १३.२९ ॥
He who sees that by prakṛti alone actions are being performed in all ways, and so too, (he who sees) the self as a non-doer, he alone sees.
He who (यः 1/1) sees (पश्यति III/1) that by prakṛti (प्रकृत्या 3/1) alone (एव 0) actions (कर्माणि 2/3) are being performed (क्रियमाणानि 2/3) in all ways (सर्वशः 0), and (च 0) so too (तथा 0), (he who sees) the self (आत्मानम् 2/1) as a non-doer (अकर्तारम् 2/1), he (सः 1/1) alone sees (पश्यति III/1).
· प्रकृत्या [prakṛtyā] = by prakṛti = प्रकृति (f.) + हेतौ to क्रियमाणानि 3/1
· एव [eva] = alone = अव्ययम्
· च [ca] = and = अव्ययम्
· कर्माणि [karmāṇi] = actions = कर्मन् (n.) + कर्मणि to पश्यति 2/3
· क्रियमाणानि [kriyamāṇāni] = being performed = क्रियमाण n. + O.C. to कर्माणि 2/3
o कृ (8U) to do + लट्/कर्मणि
कृ + शानच् (कृत्-प्रत्यय to make a present participle for आत्मनेपदि-धातु)
कृ + यक् + आन 3.1.67 सार्वधातुके यक् । ~ भावकर्मणोः
क्रि + य + आन 7.4.28 रिङ् शयग्लिङ्क्षु । ~ ऋतः अकृत्सार्वधातुकयोः अङ्गस्य
क्रि + य म् + आन 7.2.82 आने मुक् ।
· सर्वशः [sarvaśaḥ] = in all ways = अव्ययम्
· यः [yaḥ] = the one who = यद् m. + कर्तरि to पश्यति 1/1
· पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1
· तथा [tathā] = soo too = अव्ययम्
· आत्मानम् [ātmānam] = himself = आत्मन् (m.) + कर्मणि to पश्यति 2/1
· अकर्तारम् [akartāram] = non-doer = अकर्तृ m. + O.C. to आत्मानम् 2/1
· सः [saḥ] = he = तद् m. + कर्तरि to पश्यति 1/1
· पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1
अन्वयः
यः 1/1 कर्माणि 2/3 प्रकृत्या 3/1 एव 0 सर्वशः 0 क्रियमाणानि 2/3 तथा 0 च 0 आत्मानम् 2/1 अकर्तारम् 2/1 पश्यति III/1, सः 1/1 पश्यति III/1 ॥
भाष्यम्
सर्वभूतस्थम् ईश्वरं समं पश्यन् ‘न हिनस्ति आत्मना आत्मानम्’ इति उक्तम् । तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, इत्येतत् आशङ्क्य आह —
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥
प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, ‘मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् , तया प्रकृत्यैव च न अन्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति, सः परमार्थदर्शी इत्यभिप्रायः ; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्येव भेदे प्रमाणानुपपत्तिः इत्यर्थः ॥ २९ ॥