Tuesday, April 18, 2023

13th Chapter 3rd Sloka

तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३.३ ॥

 

tatkṣetraṃ yacca yādṛk ca yadvikāri yataśca yat |

sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu || 13.3 ||

 

तत् 1/1 क्षेत्रम् 1/1 यत् 1/1 0 यादृक् 1/1 0 यद्विकारि 1/1 यतः 0 0 यत् 1/1

सः 1/1 0 यः 1/1 यत्प्रभावः 1/1 0 तत् 2/1 समासेन 3/1 मे 6/1 शृणु II/1 ॥ १३.३ ॥

 

·       तत् [tat] = that = तद् (pron.) n. + कर्तरि to (भवति) 1/1

·       क्षेत्रम् [kṣetram] = the field = क्षेत्र (n.) + कर्तरि to (भवति) 1/1

·       यत् 1/1 [yat] = that which = यद् (pron.) n. + adj. to क्षेत्रम् 1/1

·       [ca] = and = अव्ययम्

·       यादृक् [yādṛk] = of which nature = यादृश् n. + S.C. to तत् 1/1

o   यद् + दृश् + क्विन् (3.2.60 त्यदादिषु दृशोऽनालोचने कञ्च । ~ क्विन् धातोः प्रत्ययः परश्च)

·       [ca] = and = अव्ययम्

·       यद्विकारि [yadvikāri] = of what modifications = + S.C. to तत् 1/1

o   यः विकारः यद्विकारः (KT)

o   यद्विकारः अस्य अस्ति इति तत् यद्विकारि ।

o   यद्विकार + इनिँ (5.2.115 अत इनिठनौ । ~ तत् अस्य अस्मिन् इति)

·       यतः [yataḥ] = from which = अव्ययम्

·       [ca] = and = अव्ययम्

·       यत् 1/1 [yat] = that which = यद् (pron.) n. + adj. to क्षेत्रम् 1/1

·       सः [saḥ] = that = तद् (pron.) m. + कर्तरि to (भवति)  1/1

·       [ca] = and = अव्ययम्

·       यः [yaḥ] = that which = यद् (pron.) m. + adj. to (क्षेत्रज्ञः) 1/1

·       यत्प्रभावः [yatprabhāvaḥ] = which are the glories = यत्प्रभाव m. + S.C. to सः 1/1

o   ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावः (116B) 

·       [ca] = and = अव्ययम्

·       तत् [tat] = that = तद् (pron.) n. + कर्मणि to शृणु 2/1

·       समासेन [samāsena] = briefly = समास (m.) + क्रियाविशेषणे 3/1

·       मे [me] = my = अस्मद् (pron.) m. + सम्बन्धे to (वाक्यतः) 6/1

·       शृणु [śṛṇu] = listen = श्रु (1P) to listen + लोट्/कर्तरि/II/1

 

And what is that ketra, of what nature, of what modifications, from what has it come and who is the ketrajña and what is (his) glory — (for) that in brief, listen to me.

 

Sentence 1:

And ( 0) what is that (यत् 1/1तत् 1/1) ketra (क्षेत्रम् 1/1), of what nature (यादृक् 1/1 0), of what modifications (यद्विकारि 1/1), from what has it come (यत् 1/1यतः 0 0)

 

Sentence 2:

And ( 0) who is the (यः 1/1 सः 1/1) (ketrajña) and what is (his) glory (यत्प्रभावः 1/1 0)

 

Sentence 3:

— (for) that (तत् 2/1) in brief (समासेन 3/1), listen (शृणु II/1) to me (मे 6/1).

 

[अन्वयः]

यत् क्षेत्रं तत् 1) यादृक् च, 2) यद्विकारि, च 3) यतः यत् (2) कार्यम् उत्पद्यते) च,

यः (क्षेत्रज्ञः) च सः 1) यत्प्रभावः,

तत् समसेन मे शृणु ।

 

’इदं शरीरम्’ इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यते तत्क्षेत्रं यच्चइत्यादि, व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् 

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

यत् निर्दिष्टम् इदं शरीरम्’ इति तत् तच्छब्देन परामृशति यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः -शब्दः समुच्चयार्थः यद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् यत् , कार्यम् उत्पद्यते इति वाक्यशेषः  यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङ्क्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥ ३ ॥

13th Chapter 2nd Sloka

 

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३.२॥

 

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |

kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13.2||

 

क्षेत्रज्ञम् 2/1 0 अपि 0 माम् 2/1 विद्धि II/1 सर्वक्षेत्रेषु 7/3 भारत S/1

क्षेत्रक्षेत्रज्ञयोः 6/2 ज्ञानम् 1/1 यत् 1/1 तत् 1/1 ज्ञानम् 1/1 मतम् 1/1 मम 6/1 ॥१३.२॥

 

·       क्षेत्रज्ञम् [kṣetrajñam] = the knower of the body = क्षेत्रज्ञ m. + कर्मणि to विद्धि 2/1

·       [ca] = and = अव्ययम्

·       अपि [api] = also = अव्ययम्

·       माम् [mām] = Me = अस्मद् m. + O.C. to क्षेत्रज्ञम् 2/1

·       विद्धि [viddhi] = May you know = विद् (2P) + लोट्/कर्तरि/II/1

·       सर्वक्षेत्रेषु [sarvakṣetreṣu] = in all the bodies = सर्वक्षेत्र + अधिकरणे 7/3

o   सर्वाणि क्षेत्राणि इति सर्वक्षेत्राणि (KT), तेषु सर्वक्षेत्रेषु ।

·       भारत [bhārata] = O Bhārata = भारत + सम्बोधने 1/1

·       क्षेत्रक्षेत्रज्ञयोः [kṣetrakṣetrajñayoḥ] = of the body and of the knower of the body = क्षेत्रक्षेत्रज्ञ + सम्बन्धे to ज्ञानम् 6/2

o   क्षेत्रं च क्षेत्रज्ञः च क्षेत्रक्षेत्रज्ञौ (ID), तयोः क्षेत्रक्षेत्रज्ञयोः ।

·       ज्ञानम् [jñānam] = knowledge = ज्ञान n. + कर्तरि to (भवति)1/1

·       यत् [yat] = that which = यद् n. + adj. to ज्ञानम् 1/1

·       तत् [tat] = that = तद् n. + adj. to ज्ञानम् 1/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान n. + कर्तरि to (भवति) 1/1

·       मतम् [matam] = vision = मत (n.) + कर्तरि to (भवति) 1/1

·       मम [mama] = My = अस्मद् m. + सम्बन्धे to मतम् 6/1

 

Bhārata (Arjuna)! May you know Me as the knower of the body in all the bodies. That (which is) knowledge of the body and of the knower of the body, is (truly) knowledge. (This is) My vision.

 

[अन्वयः]

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानम्, तत् ज्ञानम् (इति) मम मतम् ॥१३.२॥

 

Sentence 1:

Bhārata (Arjuna) (भारत S/1)! And ( 0) also (अपि 0) May you know (विद्धि II/1) Me (माम् 2/1) as the knower of the body (क्षेत्रज्ञम् 2/1) in all the bodies (सर्वक्षेत्रेषु 7/3).

 

Sentence 2:

That (यत् 1/1) (which is) knowledge (ज्ञानम् 1/1) of the body and of the knower of the body (क्षेत्रक्षेत्रज्ञयोः 6/2), is (truly) knowledge (तत् 1/1 ज्ञानम् 1/1).

 

Sentence 3:

(This is) My (मम 6/1) vision (मतम् 1/1).

 

 

क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादि-स्तम्बपर्यन्त-अनेकक्षेत्रोपाधि-प्रविभक्तः, तं निरस्त-सर्वोपाधि-भेदं सदसदादि-शब्द-प्रत्ययागोचरं विद्धि इति अभिप्रायः । हे भारत, यस्मात् क्षेत्रक्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.