ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३.२४ ॥
dhyānenātmani paśyanti kecidātmānamātmanā |
anye sāṅkhyena yogena karmayogena cāpare || 13.24 ||
ध्यानेन 3/1 आत्मनि 7/1 पश्यन्ति III/3 केचित् (1/3) 0 आत्मानम् 2/1 आत्मना 3/1 ।
अन्ये 1/3 साङ्ख्येन 3/1 योगेन 3/1 कर्मयोगेन 3/1 च 0 अपरे 1/3 ॥ १३.२४ ॥
By contemplation some see the self, in the self (mind), with the self (the prepared mind), others by enquiry and some others by karma-yoga.
By contemplation (ध्यानेन 3/1) some (केचित् (1/3) 0) see (पश्यन्ति III/3) the self (आत्मानम् 2/1), in the self (आत्मनि 7/1) (mind), with the self (आत्मना 3/1) (the prepared mind), others (अन्ये 1/3) by enquiry (साङ्ख्येन 3/1 योगेन 3/1) and (च 0) some others (अपरे 1/3) by karma-yoga (कर्मयोगेन 3/1).
· ध्यानेन [dhyānena] = by contemplation = ध्यान (n.) + हेतौ 3/1
o ध्यै (1P) to contemplate + ल्युट् 3.3.115 ल्युट् च । ~ भावे नपुंसके
· आत्मनि [ātmani] = in the self (mind) = आत्मन् (m.) + अधिकरणे to पश्यन्ति 7/1
· पश्यन्ति [paśyanti] = see = दृश् (1P) to see + लट्/कर्तरि/III/3
· केचित् [kecit] = some = अव्ययम्
o के 1/3 (कर्तरि to पश्यन्ति) + चित्
· आत्मानम् [ātmānam] = आत्मन् (m.) = the self + कर्मणि to पश्यन्ति 2/1
· आत्मना [ātmanā] = आत्मन् (m.) = by the self (prepared mind) + करणे to पश्यन्ति 3/1
· अन्ये [anye] = others = अन्य m.+ कर्तरि to पश्यन्ति 1/3
· साङ्ख्येन [sāṅkhyena] = by enquiry = साङ्ख्य (m.) + adj. to योगेन 3/1
· योगेन [yogena] = by the means of = योग (m.) + हेतौ 3/1
· कर्मयोगेन [karmayogena] = by karma-yoga = कर्मयोग (m.) + हेतौ 3/1
· च [ca] = and = अव्ययम्
· अपरे [apare] = others = अपर m. + कर्तरि to पश्यन्ति 1/3
अन्वयः
केचित् (1/3) 0 ध्यानेन 3/1 आत्मानम् 2/1 आत्मना 3/1 आत्मनि 7/1 पश्यन्ति III/3 ।
अन्ये 1/3 साङ्ख्येन 3/1 योगेन 3/1 (आत्मानम् 2/1 पश्यन्ति III/3 ) ।
अपरे 1/3 च 0 कर्मयोगेन 3/1 (आत्मानम् 2/1 पश्यन्ति III/3 ) ॥
अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते —
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात् । तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः । अन्ये साङ्ख्येन योगेन, साङ्ख्यं नाम ‘इमे सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्मा’ इति चिन्तनम् एषः साङ्ख्यो योगः, तेन ‘पश्यन्ति आत्मानमात्मना’ इति वर्तते । कर्मयोगेन, कर्मैव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे ॥ २४ ॥