ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३.१२ ॥
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaducyate || 13.12 ||
ज्ञेयम् 1/1 यत् 1/1 तत् 2/1 प्रवक्ष्यामि I/1 यत् 2/1 ज्ञात्वा 0 अमृतम् 2/1 अश्नुते III/1 ।
अनादिमत् 1/1 परम् 1/1 ब्रह्म 1/1 न 0 सत् 1/1 तत् 1/1 न 0 असत् 1/1 उच्यते III/1 ॥ १३.१२ ॥
What is to be known, that I will tell clearly, knowing which one gains deathlessness. That is said to be Brahman, which has no beginning, is limitless, and is neither existent (as an object) nor non-existent.
What (यत् 1/1) is to be known (ज्ञेयम् 1/1), that (तत् 2/1) I will tell clearly (प्रवक्ष्यामि I/1), knowing (ज्ञात्वा 0) which (यत् 2/1) one gains (अश्नुते III/1) deathlessness (अमृतम् 2/1). That (तत् 1/1) is said (उच्यते III/1) to be Brahman (ब्रह्म 1/1), which has no beginning (अनादिमत् 1/1), is limitless (परम् 1/1), and is neither (न 0) existent (सत् 1/1) (as an object) nor (न 0) non-existent (असत् 1/1).
· ज्ञेयम् [jñeyam] = that which is to be known = ज्ञेय n. + कर्तरि to (भवति) 1/1
o ज्ञा (9P) to know + यत् (कर्मणि)
· यत् [yat] = that which = यद् (pron.) n. + adj. to ज्ञेयम् 1/1
· तत् [tat] = that = तद् (pron.) n. + कर्मणि to प्रवक्ष्यामि 2/1
· प्रवक्ष्यामि [pravakṣyāmi] = I will tell clearly = प्र + वच् + लृट्/कर्तरि/I/1
· यत् [yat] = which = यद् (pron.) n. + कर्मणि to ज्ञात्वा 2/1
· ज्ञात्वा [jñātvā] = having known = अव्ययम्
o ज्ञा (9P) to know + क्त्वा (having …ed)
· अमृतम् [amṛtam] = deathlessness = अमृत (n.) + कर्मणि to अश्नुते 2/1
· अश्नुते [aśnute] = one gains = अश् (5A) to pervade + लट्/कर्तरि/III/1
· अनादिमत् [anādimat] = which has no beginning = अनादिमत् n. + adj. to ब्रह्म 1/1
o अविद्यमानः आदिः यस्य तत् अनादि (NB) । For further explanation, see the commentary.
· परम् [param] = limitless = पर n. + adj. to ब्रह्म 1/1
· ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्तरि to (भवति) 1/1
· न [na] = not = अव्ययम्
· सत् [sat] = that which is existent (as an object) = सत् n. + S.C. to तत् 1/1
· तत् [tat] = that = तद् (pron.) n. + कर्मणि to उच्यते 1/1
· न [na] = not = अव्ययम्
· असत् [asat] that which is non-existent = असत् n. + S.C. to तत् 1/1
· उच्यते [ucyate] = is said = वच् to say + लट्/कर्मणि/III/1
अन्वयः - यत् 1/1 ज्ञेयम् 1/1 तत् 2/1 प्रवक्ष्यामि I/1 ।
यत् 2/1 ज्ञात्वा 0 अमृतम् 2/1 अश्नुते III/1 (तत् 1/1) अनादिमत् 1/1 परम् 1/1 ब्रह्म 1/1 ।
तत् 1/1 सत् 1/1 न 0 , असत् 1/1 न 0 उच्यते III/1 ॥ १३.१२ ॥
यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह — ‘ज्ञेयं यत्तत्’ इत्यादि । ननु यमाः नियमाश्च अमानित्वादयः । न तैः ज्ञेयं ज्ञायते । न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः । नैष दोषः, ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवोचाम ; ज्ञानसहकारिकारणत्वाच्च —
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥
ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किम्फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह — यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते, न पुनः म्रियते इत्यर्थः । अनादिमत् आदिः अस्य अस्तीति आदिमत् , न आदिमत् अनादिमत् ; किं तत् ? परं निरतिशयं ब्रह्म, ‘ज्ञेयम्’ इति प्रकृतम् ॥
अत्र केचित् ‘अनादि मत्परम्’ इति पदं छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति । अर्थविशेषं च दर्शयन्ति — अहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इति । सत्यमेवमपुनरुक्तं स्यात् , अर्थः चेत् सम्भवति ।न तु अर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् ‘न सत्तन्नासदुच्यते’ इति । विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम् ।तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः ॥
अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह — न सत् तत् ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते
॥
ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ‘ज्ञेयं प्रवक्ष्यामि’ इति, अननुरूपमुक्तं ‘न सत्तन्नासदुच्यते’ इति ।न, अनुरूपमेव उक्तम् । कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, न ‘इदं तत्’ इति, वाचः अगोचरत्वात् ॥
ननु न तदस्ति, यद्वस्तु अस्तिशब्देन नोच्यते । अथ अस्तिशब्देन नोच्यते, नास्ति तत् ज्ञेयम् । विप्रतिषिद्धं च — ‘ज्ञेयं तत्’ ‘अस्तिशब्देन नोच्यते’ इति च । न तावन्नास्ति, नास्तिबुद्ध्यविषयत्वात् ॥
ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एव । तत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । न, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात् । यद्धि इन्द्रियगम्यं वस्तु घटादिकम् , तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् न घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः ‘न सत्तन्नासत्’ इति उच्यते ॥
यत्तु उक्तम् — विरुद्धमुच्यते, ‘ज्ञेयं तत्’ ‘न सत्तन्नासदुच्यते’ इति — न विरुद्धम् , ‘अन्यदेव तद्विदितादथो
अविदितादधि’ (के. उ. १ । ४) इति श्रुतेः । श्रुतिरपि विरुद्धार्था इति चेत् — यथा यज्ञाय शालामारभ्य ‘यद्यमुष्मिंल्लोकेऽस्ति वा
न वेति’ (तै. सं. ६ । १ । १ । १) इत्येवमिति चेत् । न ; विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात्
।‘यद्यमुष्मिन्’ इत्यादि तु विधिशेषः अर्थवादः
।उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति ।सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण
सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् ।तत् यथा — ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः ।न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् ।नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् ।नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ ।
१९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् ।अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति
युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥