Friday, May 12, 2023

13th Chapter 12th Sloka

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३.१२ ॥

 

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute |

anādimatparaṃ brahma na sattannāsaducyate || 13.12 ||

 

ज्ञेयम् 1/1 यत् 1/1 तत् 2/1 प्रवक्ष्यामि I/1 यत् 2/1 ज्ञात्वा 0 अमृतम् 2/1 अश्नुते III/1

अनादिमत् 1/1 परम् 1/1 ब्रह्म 1/1 0 सत् 1/1 तत् 1/1 0 असत् 1/1 उच्यते III/1 ॥ १३.१२ ॥

 

What is to be known, that I will tell clearly, knowing which one gains deathlessness. That is said to be Brahman, which has no beginning, is limitless, and is neither existent (as an object) nor non-existent.

 

What (यत् 1/1) is to be known (ज्ञेयम् 1/1), that (तत् 2/1) I will tell clearly (प्रवक्ष्यामि I/1), knowing (ज्ञात्वा 0) which (यत् 2/1) one gains (अश्नुते III/1) deathlessness (अमृतम् 2/1). That (तत् 1/1) is said (उच्यते III/1) to be Brahman (ब्रह्म 1/1), which has no beginning (अनादिमत् 1/1), is limitless (परम् 1/1), and is neither ( 0) existent (सत् 1/1) (as an object) nor ( 0) non-existent (असत् 1/1).

 

·       ज्ञेयम् [jñeyam] = that which is to be known = ज्ञेय n. + कर्तरि to (भवति) 1/1

o   ज्ञा (9P) to know + यत् (कर्मणि)

·       यत् [yat] = that which = यद् (pron.) n. + adj. to ज्ञेयम् 1/1

·       तत् [tat] = that = तद् (pron.) n. + कर्मणि to प्रवक्ष्यामि 2/1

·       प्रवक्ष्यामि [pravakṣyāmi] = I will tell clearly = प्र + वच् + लृट्/कर्तरि/I/1

·       यत् [yat] = which = यद् (pron.) n. + कर्मणि to ज्ञात्वा 2/1

·       ज्ञात्वा [jñātvā] = having known = अव्ययम्

o   ज्ञा (9P) to know + क्त्वा (having …ed)

·       अमृतम् [amṛtam] = deathlessness = अमृत (n.) + कर्मणि to अश्नुते 2/1

·       अश्नुते [aśnute] = one gains = अश् (5A) to pervade + लट्/कर्तरि/III/1

·       अनादिमत् [anādimat] = which has no beginning = अनादिमत् n. + adj. to ब्रह्म 1/1

o   अविद्यमानः आदिः यस्य तत् अनादि (NB) । For further explanation, see the commentary.

·       परम् [param] = limitless = पर n. + adj. to ब्रह्म 1/1

·       ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्तरि to (भवति) 1/1

·       न [na] = not = अव्ययम्

·       सत् [sat] = that which is existent (as an object) = सत् n. + S.C. to तत् 1/1

·       तत् [tat] = that = तद् (pron.) n. + कर्मणि to उच्यते 1/1

·       न [na] = not = अव्ययम्

·       असत् [asat] that which is non-existent = असत् n. + S.C. to तत् 1/1

·       उच्यते [ucyate] = is said = वच् to say + लट्/कर्मणि/III/1

 

अन्वयः - यत् 1/1 ज्ञेयम् 1/1 तत् 2/1 प्रवक्ष्यामि I/1

यत् 2/1 ज्ञात्वा 0 अमृतम् 2/1 अश्नुते III/1 (तत् 1/1) अनादिमत् 1/1 परम् 1/1 ब्रह्म 1/1

तत् 1/1 सत् 1/1 0 , असत् 1/1 0 उच्यते III/1 ॥ १३.१२ ॥

 

यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह — ‘ज्ञेयं यत्तत्इत्यादि । ननु यमाः नियमाश्च अमानित्वादयः । न तैः ज्ञेयं ज्ञायते । न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः । नैष दोषः, ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवोचाम ; ज्ञानसहकारिकारणत्वाच्च

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किम्फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते, न पुनः म्रियते इत्यर्थः । अनादिमत् आदिः अस्य अस्तीति आदिमत् , न आदिमत् अनादिमत् ; किं तत् ? परं निरतिशयं ब्रह्म, ‘ज्ञेयम्इति प्रकृतम् ॥

अत्र केचित् अनादि मत्परम्इति पदं छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति । अर्थविशेषं च दर्शयन्ति अहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इति । सत्यमेवमपुनरुक्तं स्यात् , अर्थः चेत् सम्भवति ।न तु अर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् न सत्तन्नासदुच्यतेइति । विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम् ।तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः ॥

अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह सत् तत् ज्ञेयमुच्यते इति अपि असत् तत् उच्यते

ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ज्ञेयं प्रवक्ष्यामिइति, अननुरूपमुक्तं न सत्तन्नासदुच्यतेइति ।न, अनुरूपमेव उक्तम् । कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, इदं तत्इति, वाचः अगोचरत्वात् ॥

ननु न तदस्ति, यद्वस्तु अस्तिशब्देन नोच्यते । अथ अस्तिशब्देन नोच्यते, नास्ति तत् ज्ञेयम् । विप्रतिषिद्धं च — ‘ज्ञेयं तत्’ ‘अस्तिशब्देन नोच्यतेइति च । न तावन्नास्ति, नास्तिबुद्ध्यविषयत्वात् ॥

ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एव । तत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । न, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात् । यद्धि इन्द्रियगम्यं वस्तु घटादिकम् , तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् न घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः न सत्तन्नासत् इति उच्यते ॥

यत्तु उक्तम् विरुद्धमुच्यते, ‘ज्ञेयं तत्’ ‘न सत्तन्नासदुच्यतेइति न विरुद्धम् , ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति श्रुतेः । श्रुतिरपि विरुद्धार्था इति चेत् यथा यज्ञाय शालामारभ्य यद्यमुष्मिंल्लोकेऽस्ति वा न वेति’ (तै. सं. ६ । १ । १ । १) इत्येवमिति चेत् । न ; विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात् ।‘यद्यमुष्मिन्इत्यादि तु विधिशेषः अर्थवादः ।उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति ।सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् ।तत् यथा — ‘गौः’ ‘अश्वःइति वा जातितः, ‘पचति’ ‘पठतिइति वा क्रियातः, ‘शुक्लः’ ‘कृष्णःइति वा गुणतः, ‘धनी’ ‘गोमान्इति वा सम्बन्धतः ।न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् ।नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् ।नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् ।अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.