Wednesday, May 10, 2023

13th Chapter 8th Sloka

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.८ ॥

 

indriyārtheṣu vairāgyamanahaṅkāra eva ca |

janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || 13.8 ||

 

इन्द्रियार्थेषु 7/3 वैराग्यम् 1/1 अनहङ्कारः 1/1 एव 0 0

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 1/1 ॥ १३.८ ॥

 

... dispassion towards the sense objects, absence of pride and seeing clearly the defects of pain in birth, death, old age and disease …

 

... dispassion (वैराग्यम् 1/1) towards the sense objects (इन्द्रियार्थेषु 7/3), absence of pride (अनहङ्कारः 1/1) and (एव 0 0) seeing clearly the defects of pain in birth, death, old age and disease (जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 1/1) …

 

·       इन्द्रियार्थेषु [indriyārtheṣu] = with reference to the sense objects = इन्द्रियार्थ (m.) + अधिकरणे 7/3

o   इन्द्रियाणाम् अर्थाः (6T), तेषु ।

·       वैराग्यम् [vairāgyam] = dispassion = वैराग्य (n.) + प्रातिपदिकार्थमात्रे 1/1

o   विगताः रागाः यस्मात् सः विरागः (115B)

o   विरागस्य भावः वैराग्यम् (विराग + ङस् + ष्यञ् 5.1.123 वर्णदृढादिभ्यः ष्यञ् च ।)

·       अनहङ्कारः [anahaṅkāraḥ] = absence of pride = 1/1

o   न अहंकारः अनहंकारः ।

·       एव [eva] = indeed = अव्ययम्

·       [ca] = and = अव्ययम्

·       जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् [janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam] = seeing clearly the defects of pain in birth, death, old age and disease = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शन (n.) 1/1

o   जन्म च मृत्युः च जरा च व्याधयः च दुःखं च जन्ममृत्युजराव्याधिदुःखानि (ID) । दोषस्य अनुदर्शनम् दोषानुदर्शनम् (6T) । जन्ममृत्युजराव्याधिदुःखेषु दोषानुदर्शनम् (7T)

o   जन्म च मृत्युः च जरा च व्याधयः च जन्ममृत्युजराव्याधयः (ID) । दुःखानि एव दोषः दुःखदोषः (KT) । दुःखदोषस्य अनुदर्शनम् दुःखदोषानुदर्शनम् (6T) । जन्ममृत्युजराव्याधिषु दुःखदोषानुदर्शनम् (7T)

 

 

किञ्च

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.८ ॥

इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम् अनहङ्कारः अहङ्काराभावः एव जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः, तस्य अनुदर्शनमालोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु । अथवा दुःखान्येव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःखनिमित्तत्वात् जन्मादयः दुःखम् , न पुनः स्वरूपेणैव दुःखमिति । एवं जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषयभोगेषु वैराग्यमुपजायते । ततः प्रत्यगात्मनि प्रवृत्तिः करणानामात्मदर्शनाय । एवं ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनम् ॥ ८ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.