Wednesday, May 17, 2023

13th Chapter 19th Sloka

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३.१९ ॥

 

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi |

vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān || 13.19 ||

 

प्रकृतिम् 2/1 पुरुषम् 2/1 0 एव 0 विद्धि II/1 अनादी 2/2 उभौ 2/2 अपि 0

विकारान् 2/3 0 गुणान् 2/3 0 एव 0 विद्धि II/1 प्रकृतिसम्भवान् 2/3 ॥ १३.१९ ॥

 

May you know that both prakṛti and puruṣa are indeed beginningless. May you also know that the modifications, and the qualities are indeed born of prakṛti.

 

May you know (विद्धि II/1) that both (उभौ 2/2 अपि 0) prakṛti (प्रकृतिम् 2/1) and ( 0) puruṣa (पुरुषम् 2/1) are indeed (एव 0) beginningless (अनादी 2/2).

May you also ( 0) know (विद्धि II/1) that the modifications (विकारान् 2/3), and ( 0) the qualities (गुणान् 2/3) are indeed (एव 0) born of prakṛti (प्रकृतिसम्भवान् 2/3).

 

·       प्रकृतिम् [prakṛtim] = prakṛti = प्रकृति (f.) + कर्मणि to विद्धि 2/1

·       पुरुषम् [puruṣam] = puruṣa = पुरुष (m.) + कर्मणि to विद्धि 2/1

·       [ca] = and = अव्ययम्  

·       एव [eva] = indeed = अव्ययम्  

·       विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1

o   विद् + हि 3.4.87 सेर्ह्यपिच्च । ~ लस्य लोटः

विद् + धि               6.4.101 हुझल्भ्यो हेर्धिः ।

·       अनादी [anādī] = beginningless = अनादि m. + O.C. to उभौ 2/2

o   न विद्यते आदिः ययोः 6/2 तौ अनादी (NB) ।

·       उभौ [ubhau] = both = उभ m.+ pronoun of प्रकृतिम् and पुरुषम् (प्रकृतिपुरुषौ) 2/2

·       अपि [api] = also = अव्ययम्  

·       विकारान् [vikārān] = modifications = विकार (m.) + कर्मणि to विद्धि 2/3

·       [ca] = and = अव्ययम्  

·       गुणान् [guṇān] = attributes = गुण (m.) + कर्मणि to विद्धि 2/3

·       [ca] = and = अव्ययम्  

·       एव [eva] = indeed = अव्ययम्  

·       विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1

·       प्रकृतिसम्भवान् [prakṛtisambhavān] = that which are born of prakṛti = प्रकृतिसम्भव m. + O.C. to विकारान्/गुणान् 2/3

 

 

अन्वयः

प्रकृतिम् 2/1 पुरुषम् 2/1 0 उभौ 2/2 अपि 0 अनादी 2/2 एव 0 विद्धि II/1

विकारान् 2/3 0 गुणान् 2/3 0 प्रकृतिसम्भवान् 2/3 एव 0 विद्धि II/1 ॥ १३.१९ ॥

 

 

तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्रक्षेत्रज्ञलक्षणे ; ‘एतद्योनीनि भूतानि’ (भ. गी. ७ । ६) इति च उक्तम् । क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभावपि अनादी विद्धि, न विद्यते आदिः ययोः तौ अनादी । नित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम् । प्रकृतिद्वयवत्त्वमेव हि ईश्वरस्य ईश्वरत्वम् । याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम् ॥

 

न आदी अनादी इति तत्पुरुषसमासं केचित् वर्णयन्ति । तेन हि किल ईश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् न ईश्वरस्य जगतः कर्तृत्वम् ।

आक्षेपः)(イーシュヴァラが पुरुष/प्रकृति とは別の存在だと思っている。) पुरुष प्रकृति が) आदि कारण)でないもの、と तत्पुरुषसमास で説明する人がいます。それによってイーシュヴァラの原因であるステータスが確立されます。もし、पुरुष प्रकृति が永遠なら、世界はそれらによって創られていることになり、イーシュヴァラによって創られたものではなくなります。

तत् असत् ; प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात् , संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् बन्धमोक्षाभावप्रसङ्गाच्च । नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत् । कथम् ?

समाधानम् それは違います。पुरुष प्रकृति が表れる前にはイーシュヴァラが不在であることから、イーシュヴァラがイーシュヴァラでなくなってしまうことから。(イーシュヴァラが別の存在にその存在を頼っているなら、イーシュヴァラとは呼べなくなる。)さらに、サムサーラが(イーシュヴァラを必要とせず)それ自体で存在できているなら、(サムサーラからの)モークシャは不可能となっていまうことから。そうなれば、聖典が教えることはなくなり、束縛も自由もないことになってしまうことから。 आदि कारण)でないもの、と तत्पुरुषसमास で説明する人がいます。それによってイーシュヴァラの原因であるステータスが確立されます。もし、पुरुष प्रकृति が永遠なら、世界はそれらによって創られていることになり、イーシュヴァラによって創られたものではなくなります。

しかし、ふたつのプラクリティの(によって構成されている)イーシュヴァラが永遠であるなら、全ては可能です。どのように?

विकारांश्च गुणांश्चैव वक्ष्यमाणान्विकारान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसम्भवान् , प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया, सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसम्भवान् प्रकृतिपरिणामान् ॥ १९ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.