Thursday, May 18, 2023

13th Chapter 26th Sloka

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३.२६ ॥

 

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam |

kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha || 13.26 ||

 

यावत् 1/1 सञ्जायते III/1 किञ्चित् 0 सत्त्वम् 1/1 स्थावरजङ्गमम् 1/1

क्षेत्रक्षेत्रज्ञसंयोगात् 5/1 तत् 2/1 विद्धि II/1 भरतर्षभ S/1 ॥ १३.२६ ॥

 

As long as any existent thing – moving or non-moving – is born, that may you know, Arjuna, the foremost in the clan of Bharata! is because of the connection between the kṣetra and kṣetrajña.

 

As long as (यावत् 1/1) any (किञ्चित् 0) existent thing (सत्त्वम् 1/1) – moving or non-moving (स्थावरजङ्गमम् 1/1) – is born (सञ्जायते III/1), that (तत् 2/1) may you know (विद्धि II/1), Arjuna, the foremost in the clan of Bharata (भरतर्षभ S/1)! is because of the connection between the kṣetra and kṣetrajña (क्षेत्रक्षेत्रज्ञसंयोगात् 5/1).

 

·       यावत् [yāvat] = as long as = यावत् n. + adj. to सत्त्वम् 1/1

o   यद् + वतुँप्             5.2.39 यत्तदेतेभ्यः परिमाणे वतुँप् । ~ तद्धिताः

·       सञ्जायते [sañjāyate] = is born = सम् + जन् + लट्/कर्तरि/III/1

·       किञ्चित् [kiñcit] = any = अव्ययम्

o   किम् 1/1 + चित्

·       सत्त्वम् [sattvam] = that which exists = सत्त्व (n.) + कर्तरि to सञ्जायते 1/1

o   सतोः भावः सत्त्वम्   5.1.119 तस्य भावस्त्वतलौ ।

·       स्थावरजङ्गमम् [sthāvarajaṅgamam] = mobile and immobile thing = स्थावरजङ्गम (n.) + adj. to सत्त्वम् 1/1

o   स्थावराणां जङ्गमानां च संहारः स्थावरजङ्गमम् (SD)

·       क्षेत्रक्षेत्रज्ञसंयोगात् [kṣetrakṣetrajñasaṃyogāt] = because of the connection between the kṣetra and kṣetrajña = क्षेत्रक्षेत्रज्ञसंयोग (m.) + हेतौ 5/1

o   क्षेत्रं च क्षेत्रज्ञः च क्षेत्रक्षेत्रज्ञौ (ID), तयोः संयोगः क्षेत्रक्षेत्रज्ञसंयोगः (6T), तस्मात् ।

·       तत् [tat] = that = तद् n. + कर्मणि to विद्धि 2/1

·       विद्धि [viddhi] = may you know = विद् (2P) to know + लोट्/कर्तरि/II/1

·       भरतर्षभ [bharatarṣabha] = the foremost in the clan of Bharata = भरतर्षभ m. + सम्बोधने 1/1

 

अन्वयः

यावत् 1/1 किञ्चित् 0 सत्त्वम् 1/1 स्थावरजङ्गमम् 1/1 सञ्जायते III/1

तत् 2/1 क्षेत्रक्षेत्रज्ञसंयोगात् 5/1 विद्धि II/1 भरतर्षभ S/1

 

भाष्यम्

क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥

यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ? नेत्याह स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते इत्येवं विद्धि जानीहि भरतर्षभ

कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात् अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् असदेव सदिव अवभासते’ इति एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम् । तस्य जन्महेतोः अपगमात् य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह’ (भ. गी. १३ । २३) इत्यनेन विद्वान् भूयः न अभिजायते’ इति यत् उक्तम् , तत् उपपन्नमुक्तम् ॥ २६ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.