इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३.६ ॥
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ |
etatkṣetraṃ samāsena savikāramudāhṛtam || 13.6 ||
इच्छा 1/1 द्वेषः 1/1 सुखम् 1/1 दुःखम् 1/1 सङ्घातः 1/1 चेतना 1/1 धृतिः 1/1 ।
एतत् 1/1 क्षेत्रम् 1/1 समासेन 3/1 सविकारम् 1/1 उदाहृतम् 1/1 ॥ १३.६ ॥
· इच्छा [icchā] = desire = इच्छा (f.) + प्रातिपदिकार्थमात्रे 1/1
· द्वेषः [dveṣaḥ] = aversion = द्वेष (m.) + प्रातिपदिकार्थमात्रे 1/1
· सुखम् [sukham] = pleasure = सुख (n.) + प्रातिपदिकार्थमात्रे 1/1
· दुःखम् [duḥkham] = pain = दुःख (n.) + प्रातिपदिकार्थमात्रे 1/1
· सङ्घातः [saṅghātaḥ] = the physical body = सङ्घात (m.)+ प्रातिपदिकार्थमात्रे 1/1
o सम् + हन् + घञ् 3.3.18 भावे । ~ घञ्
o सम् + घन् + अ 7.3.54 हो हन्तेर्ञ्णिन्नेषु । ~ कुः
o सम् + घान् + अ 7.2.116 अत उपधायाः । ~ ञ्णिति वृद्धिः
o सम् + घात् + अ 7.3.32 हनस्तोऽचिण्णलोः । ~ ञ्णिति
· चेतना [cetanā] = cognition = चेतना (f.) + प्रातिपदिकार्थमात्रे 1/1
o चित् + णिच् + युच् 3.3.107 ण्यासश्रन्थो युच् । ~ स्त्रियाम् (चेतयते अनया)
· धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1
· एतत् [etat] = this = एतद् (pron.) n. + adj. to क्षेत्रम् 1/1
· क्षेत्रम् [kṣetram] = kṣetra = क्षेत्र (n.) + 1/1
· समासेन [samāsena] = briefly = समास (m.) + क्रियाविशेषणे 3/1
· सविकारम् [savikāram] = along with its modifications = सविकार n. + adj. to उदाहृतम् 1/1
o विकारेण सह वर्तते इति तत् सविकारम् (SB) ।
· उदाहृतम् [udāhṛtam] = stated = उदाहृत n. + S.C. to क्षेत्रम् 1/1
o उद् + आङ् + हृ to say, to illustrate + क्त
... desire, aversion, pleasure, pain, the physical body, cognition, fortitude — (all) this is kṣetra, which is stated briefly along with its modifications.
... desire (इच्छा 1/1), aversion (द्वेषः 1/1), pleasure (सुखम् 1/1), pain (दुःखम् 1/1), the physical body (सङ्घातः 1/1), cognition (चेतना 1/1), fortitude (धृतिः 1/1) — (all) this (एतत् 1/1) is kṣetra (क्षेत्रम् 1/1), which is stated (उदाहृतम् 1/1) briefly (समासेन 3/1) along with its modifications (सविकारम् 1/1).
अथ इदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः तेऽपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्य इत्याह भगवान् –
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥
इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः तज्जातीयमर्थमुपलभमानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव । तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव । दुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम् । सङ्घातः देहेन्द्रियाणां संहतिः । तस्यामभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना ; सा च क्षेत्रं ज्ञेयत्वात् । धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम् । यत उक्तमुपसंहरति — एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य क्षेत्रभेदजातस्य संहतिः ‘इदं शरीरं क्षेत्रम्’ (भ. गी. १३ । १) इति उक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् ॥ ६ ॥