पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३.२१ ॥
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu || 13.21 ||
पुरुषः 1/1 प्रकृतिस्थः 1/1 हि 0 भुङ्क्ते III/1 प्रकृतिजान् 2/3 गुणान् 2/3 ।
कारणम् 1/1 गुणसङ्गः 1/1 अस्य 6/1 सदसद्योनिजन्मसु 7/3 ॥ १३.२१ ॥
Because puruṣa (enjoyer, jīva) obtains in prakṛti, (he) enjoys the attributes born of prakṛti. His attachment to the attributes is the cause for births in higher and lower wombs.
Because (हि 0) puruṣa (पुरुषः 1/1) (enjoyer, jīva) obtains in prakṛti (प्रकृतिस्थः 1/1), (he) enjoys (भुङ्क्ते III/1) the attributes (गुणान् 2/3) born of prakṛti (प्रकृतिजान् 2/3).
His (अस्य 6/1) attachment to the attributes (गुणसङ्गः 1/1) is the cause (कारणम् 1/1) for births in higher and lower wombs (सदसद्योनिजन्मसु 7/3).
· पुरुषः [puruṣaḥ] = puruṣa = पुरुष (m.) + कर्तरि to (भवति) 1/1
· प्रकृतिस्थः [prakṛtisthaḥ] = that which obtains in prakṛti = प्रकृतिस्थ m. + S.C. to पुरुषः 1/1
o प्रकृतौ तिष्ठति ।
o प्रकृति + ङि + स्था + क 3.2.4 सुपि स्थः । ~ कः
· हि [hi] = because = अव्ययम्
· भुङ्क्ते [bhuṅkte] = enjoys = भुज् (7P) to enjoy + लट्/कर्तरि/III/1
· प्रकृतिजान् [prakṛtijān] = born of prakṛti = प्रकृतिज m. + adj. to गुणान् 2/3
o प्रकृतितः जायन्ते ।
o प्रकृति + ङसिँ + जन् + ड 3.2.98 पञ्चम्यामजातौ । ~ डः जनेः
· गुणान् [guṇān] = the attributes = गुण (m.) + कर्मणि to भुङ्क्ते 2/3
· कारणम् [kāraṇam] = the cause = कारण (n.) + S.C. to गुणसङ्गः 1/1
· गुणसङ्गः [guṇasaṅgaḥ] = attachment to the attributes = गुणसङ्ग (m.) + कर्तरि to (भवति) 1/1
· अस्य [asya] = of this (puruṣa) = इदम् m. + सम्बन्धे to गुणसङ्गः 6/1
· सदसद्योनिजन्मसु [sadasadyonijanmasu] = = सदसद्योनिजन्मन् (n.) + अधिकरणे to कारणम् 7/3
अन्वयः
हि 0 (यस्मात्) पुरुषः 1/1 प्रकृतिस्थः 1/1, (तस्मात् पुरुषः) प्रकृतिजान् 2/3 गुणान् 2/3 भुङ्क्ते III/1 ।
अस्य 6/1 (पुरुषस्य) गुणसङ्गः 1/1 सदसद्योनिजन्मसु 7/3 कारणम् 1/1 ॥ १३.२१ ॥
यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति उक्तं तस्य तत् किंनिमित्तमिति उच्यते —
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥
पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः, प्रकृतिमात्मत्वेन गतः इत्येतत् , हि यस्मात् , तस्मात् भुङ्क्ते उपलभते इत्यर्थः । प्रकृतिजान् प्रकृतितः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् ‘सुखी, दुःखी, मूढः, पण्डितः अहम्’ इत्येवम् । सत्यामपि अविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानं कारणं जन्मनः, ‘सः यथाकामो भवति तत्क्रतुर्भवति’ (बृ. उ. ४ । ४ । ५) इत्यादिश्रुतेः । तदेतत् आह — कारणं हेतुः गुणसङ्गः गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु, सत्यश्च असत्यश्च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि, तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गः । अथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्गः इति संसारपदमध्याहार्यम् । सद्योनयः देवादियोनयः ; असद्योनयः पश्वादियोनयः । सामर्थ्यात् सदसद्योनयः मनुष्ययोनयोऽपि अविरुद्धाः द्रष्टव्याः ॥
एतत् उक्तं भवति — प्रकृतिस्थत्वाख्या अविद्या, गुणेषु च सङ्गः कामः, संसारस्य कारणमिति । तच्च परिवर्जनाय उच्यते । अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धम् ।
तच्च ज्ञानं पुरस्तात् उपन्यस्तं क्षेत्रक्षेत्रज्ञविषयम् ‘यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इति ।
उक्तं च अन्यापोहेन अतद्धर्माध्यारोपेण च ॥ २१ ॥
(その知識は)(सत् と असत्)のどちらでもないと否定することにより、そしてそれではないものを重ね合わせることによって(सर्वतःपाणिपादम् etc.)言われました。