Showing posts with label 0910 9th Chapter 10th Sloka. Show all posts
Showing posts with label 0910 9th Chapter 10th Sloka. Show all posts

Friday, August 16, 2024

9th Chapter 10th Sloka

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९.१० ॥

 

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |

hetunānena kaunteya jagadviparivartate || 9.10 ||

 

मया 3/1 अध्यक्षेण 3/1 प्रकृतिः 1/1 सूयते III/1 सचराचरम् 2/1

हेतुना 3/1 अनेन 3/1 कौन्तेय S/1 जगत् 1/1 विपरिवर्तते III/1 ॥ ९.१० ॥

 

·       मया [mayā] = with me = + 3/1

·       अध्यक्षेण [adhyakṣeṇa] = as the presiding presence = + 3/1

·       प्रकृतिः [prakṛtiḥ] = the prakṛti = प्रकृति (f.) + 1/1

·       सूयते [sūyate] = creates = + III/1

·       सचराचरम् [sacarācaram] = the movables and immovables = + 2/1

·       हेतुना [hetunā] = reason = + 3/1

·       अनेन [anena] = because of this = + 3/1

·       कौन्तेय [kaunteya] = Kaunteya! = + S/1

·       जगत् [jagat] = the world = + 1/1

·       विपरिवर्तते [viparivartate] = undergoes changes = + III/1

 

 

Sentence 1:

मया 3/1 अध्यक्षेण 3/1 प्रकृतिः 1/1 सचराचरम् 2/1 सूयते III/1

With me (मया 3/1) as the presiding presence (अध्यक्षेण 3/1), the prakṛti (प्रकृतिः 1/1) creates (सूयते III/1) (the world of) the movables and immovables (सचराचरम् 2/1).

 

Sentence 2:

कौन्तेय S/1 अनेन 3/1 हेतुना 3/1 जगत् 1/1 विपरिवर्तते III/1 ॥ ९.१० ॥

Because of this (अनेन 3/1) reason (हेतुना 3/1), Kaunteya (कौन्तेय S/1)! the world (जगत् 1/1) undergoes changes (विपरिवर्तते III/1).

 

तत्र भूतग्राममिमं विसृजामि’ (भ. गी. ९ । ८) उदासीनवदासीनम्’ (भ. गी. ९ । ९) इति च विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह

मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्णः — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः अहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता — ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.