Thursday, May 18, 2023

13th Chapter 27th Sloka

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३.२७ ॥

 

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |

vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || 13.27 ||

 

समम् 2/1 सर्वेषु 7/3 भूतेषु 7/3 तिष्ठन्तम् 2/1 परमेश्वरम् 2/1

विनश्यत्सु 7/3 अविनश्यन्तम् 2/1 यः 1/1 पश्यति III/1 सः 1/1 पश्यति III/1 ॥ १३.२७ ॥

 

The one who sees the Lord, as remaining the same in all beings, as the one who is not being destroyed in the things that are perishing, he alone sees.

 

The one who (यः 1/1) sees (पश्यति III/1) the Lord (परमेश्वरम् 2/1), as remaining (तिष्ठन्तम् 2/1) the same (समम् 2/1) in all (सर्वेषु 7/3) beings (भूतेषु 7/3), as the one who is not being destroyed (अविनश्यन्तम् 2/1) in the things that are perishing (विनश्यत्सु 7/3), he (सः 1/1) alone sees (पश्यति III/1).

 

·       समम् [samam] = the same = सम m. + adj. to तिष्ठन्तम् 2/1

·       सर्वेषु [sarveṣu] = in all = सर्व n. + adj. to भूतेषु 7/3

·       भूतेषु [bhūteṣu] = in beings = भूत (n.) + अधिकरणे to तिष्ठन्तम् 7/3

·       तिष्ठन्तम् [tiṣṭhantam] = remaining = तिष्ठत् n. + adj. to परमेश्वरम् 2/1

o   स्था गतिनिवृत्तौ (1P) to remain, to stay + शतृँ (~ing)

·       परमेश्वरम् [parameśvaram] = the Lord = परमेश्वर m. + कर्मणि to पश्यति 2/1

·       विनश्यत्सु [vinaśyatsu] = in the things that are perishing = विनश्यत् n. + adj. to भूतेषु 7/3

o   वि + नश् (4P) to perish + शतृँ (~ing) = विनशत्

·       अविनश्यन्तम् [avinaśyantam] = the one who is not being destroyed = विनश्यत् m. + adj. to परमेश्वरम् 2/1

o   न विनश्यन् अविनश्यन् (NT), तम् ।

·       यः [yaḥ] = the one who = यद् m. + कर्तरि to पश्यति 1/1

·       पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1

·       सः [saḥ] = he = तद् m. + कर्तरि to पश्यति 1/1

·       पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1

 

अन्वयः

यः 1/1 सर्वेषु 7/3 विनश्यत्सु 7/3 भूतेषु 7/3 अविनश्यन्तम् 2/1 समम् 2/1 तिष्ठन्तम् 2/1 परमेश्वरम् 2/1 पश्यति III/1, सः 1/1 पश्यति III/1

 

भाष्यम्

’न स भूयोऽभिजायते’ (भ. गी. १३ । २३) इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तः । जन्मकारणं च अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः ; अतः तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्तरेण उच्यते

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥

समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् ; क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु ; कम् ? परमेश्वरं देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः अपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्सु इति, तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य च अत्यन्तवैलक्षण्यप्रदर्शनार्थम् । कथम् ? सर्वेषां हि भावविकाराणां जनिलक्षणः भावविकारो मूलम् ; जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशान्ताः ; विनाशात् परो न कश्चित् अस्ति भावविकारः, भावाभावात् । सति हि धर्मिणि धर्माः भवन्ति । अतः अन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैः । तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तमेव परमेश्वरस्य सिद्धम् , निर्विशेषत्वम् एकत्वं च । यः एवं यथोक्तं परमेश्वरं पश्यति, सः पश्यति

ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेन इति । सत्यं पश्यति ; किं तु विपरीतं पश्यति । अतः विशिनष्टि स एव पश्यतीति । यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति, तमपेक्ष्य एकचन्द्रदर्शी विशिष्यते स एव पश्यतीति ; तथा इहापि एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, सः विभक्तानेकात्मविपरीतदर्शिभ्यः विशिष्यते स एव पश्यतीति । इतरे पश्यन्तोऽपि न पश्यन्ति, विपरीतदर्शित्वात् अनेकचन्द्रदर्शिवत् इत्यर्थः ॥ २७ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.