तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८.१६॥
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || 18.16||
तत्र 0 एवम् 0 सति 7/1 कर्तारम् 2/1 आत्मानम् 2/1 केवलम् 2/1 तु 0 यः 1/1 ।
पश्यति III/1 अकृतबुद्धित्वात् 5/1 सः 1/1 पश्यति III/1 न 0 दुर्मतिः 1/1 ॥ १८.१६॥
· तत्र [tatra] = when this is so = अव्ययम्
· एवम् [evam] = thus = अव्ययम्
· सति [sati] = when it is so = सत् (n.) + भावलक्षणे (सतिसप्तपी) 7/1
o अस् (2P) to be + शतृ
· कर्तारम् [kartāram] = the agent = कर्तृ (m.) + O.C. to आत्मानम् 2/1
· आत्मानम् [ātmānam] = the self = आत्मन् (m.) + कर्मणि to पश्यति 2/1
· केवलम् [kevalam] = pure/alone = केवल (n.) + adj. to आत्मानम् 2/1
· तु [tu] = but/on the other hand = अव्ययम्
· यः [yaḥ] = the one who = यद् (pron.) + कर्तरि to पश्यति 1/1
· पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1
· अकृतबुद्धित्वात् [akṛtabuddhitvāt] = because of an immature mind = अकृतबुद्धित्व (n.) + हेतौ to पश्यति 5/1
o अकृता असंस्कृता बुद्धिः यस्य सः अकृतबुद्धिः। तस्य भावः अकृतबुद्धित्वम्, तस्मात् ।
· सः [saḥ] = he = तद् (pron.) + कर्तरि to पश्यति (second) 1/1
· पश्यति [paśyati] = sees (truly) = दृश् (1P) + लट्/कर्तरि/III/1
· न [na] = not = अव्ययम्
· दुर्मतिः [durmatiḥ] = the one whose thinking is distorted = दुर्मति (m.) + कर्तरि to पश्यति (second) 1/1
When this is so, the one who sees, on the other hand, the self, which is ‘pure,’ as the agent, because of an immature mind, that person whose thinking is distorted does not see (the truth).
Sentence 1:
तत्र 0 एवम् 0 सति 7/1, यः 1/1 तु 0 अकृतबुद्धित्वात् 5/1 केवलम् 2/1 आत्मानम् 2/1 कर्तारम् 2/1 पश्यति III/1 सः 1/1 दुर्मतिः 1/1 न 0 पश्यति III/1॥
When this is so (तत्र 0 एवम् 0 सति 7/1), the one (यः 1/1) who sees (पश्यति III/1), on the other hand (तु 0), the self (आत्मानम् 2/1), which is “pure (केवलम् 2/1),” as the agent (कर्तारम् 2/1), because of an immature mind (अकृतबुद्धित्वात् 5/1), that person (सः 1/1) whose thinking is distorted (दुर्मतिः 1/1) does not see (न 0 पश्यति III/1) (the truth).
तत्र 0 इति प्रकृतेन सम्बध्यते । एवम् 0 सति 7/1 एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि । तत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते । तत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः “अहमेव कर्ता” इति कर्तारम् 2/1 आत्मानम् 2/1 केवलम् 2/1 शुद्धं तु 0 यः 1/1 पश्यति III/1 अविद्वान् ; कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् 5/1 असंस्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः अकृतबुद्धित्वात् न 0 सः 1/1 पश्यति III/1 आत्मनः तत्त्वं कर्मणो वा इत्यर्थः । अतः दुर्मतिः 1/1, कुत्सिता विपरीता दुष्टा अजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः । सः पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम् , यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥ १८.१६ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.