अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८.१२ ॥
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit || 18.12 ||
अनिष्टम् 1/1 इष्टम् 1/1 मिश्रम् 1/1 च 0 कर्मणः 6/1 त्रिविधम् 1/1 फलम् 1/1 ।
भवति III/1 अत्यागिनाम् 6/3 प्रेत्य 0 न 0 तु 0 संन्यासिनाम् 6/3 क्वचित् 0॥ १८.१२ ॥
· अनिष्टम् [aniṣṭam] = undesirable = अनिष्ट (n.) + कर्तरि to भवति 1/1
· इष्टम् [iṣṭam] = desirable = इष्ट (n.) + कर्तरि to भवति 1/1
· मिश्रम् [miśram] = mixed = मिश्र (n.) + कर्तरि to भवति 1/1
· च [ca] = and = अव्ययम्
· कर्मणः [karmaṇaḥ] = of action = कर्मन् (n.) + सम्बन्धे to फलम् 6/1
· त्रिविधम् [trividham] = three-fold = त्रिविध (n.) + adj. to फलम् 1/1
· फलम् [phalam] = result = फल (n.) + S.C. to अनिष्टम्, इष्टम्, and मिश्रम् 1/1
· भवति [bhavati] = exists, occurs = भू (1P) to be + लट्/कर्तरि/III/1
· अत्यागिनाम् [atyāginām] = of the non-renunciates = अत्यागिन् (m.) + सम्बन्धे to कर्मणः 6/3
· प्रेत्य [pretya] = after death = अव्ययम्
o प्र + इण् to go (beyond life) + ल्यप्
· न [na] = not = अव्ययम्
· तु [tu] = but = अव्ययम्
· संन्यासिनाम् [saṃnyāsinām] = of the renunciates = संन्यासिन् (m.) + सम्बन्धे to (कर्मणः फलम्) 6/3
· क्वचित् [kvacit] = ever/at any time = अव्ययम्
The three-fold result of action— undesirable, desirable, and a mixture— exists after death for the non-renunciates, but never for the renunciates.
Sentence 1:
कर्मणः 6/1 फलम् 1/1 त्रिविधम् 1/1 – अनिष्टम् 1/1 इष्टम् 1/1 मिश्रम् 1/1 च 0 – अत्यागिनाम् 6/3 प्रेत्य 0 भवति III/1, संन्यासिनाम् 6/3 तु 0 न 0 क्वचित् 0॥
The three-fold (त्रिविधम् 1/1) result (फलम् 1/1) of action (कर्मणः 6/1) — undesirable (अनिष्टम् 1/1), desirable (इष्टम् 1/1), and (च 0) a mixture (मिश्रम् 1/1) — exists (भवति III/1) after death (प्रेत्य 0) for the non-renunciates (अत्यागिनाम् 6/3), but (तु 0) never (न 0 क्वचित् 0) for the renunciates (संन्यासिनाम् 6/3).
किं पुनः तत् प्रयोजनम् , यत् सर्वकर्मसंन्यासात् स्यादिति, उच्यते —
अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च, तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इव — फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् — तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् ।
न तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् ।
न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.