पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८.२१ ॥
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam || 18.21 ||
पृथक्त्वेन 3/1 तु 0 यत् 1/1 ज्ञानम् 1/1 नानाभावान् 2/3 पृथक्-विधान् 2/3 ।
वेत्ति III/1 सर्वेषु 7/3 भूतेषु 7/3 तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 राजसम् 2/1 ॥ १८.२१ ॥
· पृथक्त्वेन [pṛthaktvena] = as distinctness = पृथक्त्व (n.) + प्रकृत्यादि 3/1
· तु [tu] = on the other hand = अव्ययम्
· यत् [yat] = that which = यद् (pron. n.) + adj. to ज्ञानम् 1/1
· ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्तरि to वेत्ति 1/1
· नानाभावान् [nānābhāvān] = manifold natures = नानाभाव (m.) + कर्मणि to वेत्ति 2/3
· पृथक्-विधान् [pṛthag-vidhān] = different kinds = पृथक्-विधान (m.) + कर्मणि to वेत्ति 2/3
· वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1
· सर्वेषु [sarveṣu] = among all = सर्व (pron. n.) + adj. to भूतेषु 7/3
· भूतेषु [bhūteṣu] = among beings = भूत (n.) + अधिकरणे to वेत्ति 7/3
· तत् [tat] = that = तद् (pron. n.) + adj. to ज्ञानम् 2/1
· ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to विद्धि 2/1
· विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1
· राजसम् [rājasam] = rājasa = राजस (n.) + O.C. to ज्ञानम् 2/1
On the other hand, may you know that knowledge by which one knows distinctly the manifold nature of different kinds of beings, as rājasa.
Sentence 1:
यत् 1/1 तु 0 ज्ञानम् 1/1 सर्वेषु 7/3 भूतेषु 7/3 नानाभावान् 2/3 पृथक्-विधान् 2/3 पृथक्त्वेन 3/1 वेत्ति III/1, तत् 2/1 ज्ञानम् 2/1 राजसम् 2/1 विद्धि II/1॥
On the other hand (तु 0), may you know (विद्धि II/1) that (यत् 1/1) knowledge (ज्ञानम् 1/1) by which one knows (वेत्ति III/1) distinctly (पृथक्त्वेन 3/1) the manifold nature (नानाभावान् 2/3) of different kinds (पृथक्-विधान् 2/3) with reference to all (सर्वेषु 7/3) beings (भूतेषु 7/3), as rājasa (राजसम् 2/1).
यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति —
पृथक्त्वेन 3/1 तु 0 भेदेन प्रतिशरीरम् अन्यत्वेन यत् 1/1 ज्ञानम् 1/1 नानाभावान् 2/3 भिन्नान् 2/3 आत्मनः पृथक्-विधान् 2/3 पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति III/1 विजानाति यत् ज्ञानं सर्वेषु 7/3 भूतेषु 7/3, ज्ञानस्य कर्तृत्वासम्भवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 राजसम् 2/1 रजोगुणनिर्वृत्तम् ॥ १८.२१ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.