शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८.१५ ॥
śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 18.15 ||
शरीर-वाङ्-मनोभिः 3/3 यत् 2/1 कर्म 2/1 प्रारभते III/1 नरः 1/1 ।
न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 पञ्च 1/3 एते 1/3 तस्य 6/1 हेतवः 1/3॥ १८.१५ ॥
· शरीर-वाङ्-मनोभिः [śarīra-vāṅ-manobhiḥ] = with body, speech, and mind = शरीरवाङ्मनस् (n.) + करणे to प्रारभते 3/3
· यत् [yat] = that which = यद् (pron.) + adj. to कर्म 2/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to प्रारभते 2/1
· प्रारभते [prārabhate] = undertakes = प्र + आङ् + रभ् (1A) to begin, undertake + लट्/कर्तरि/III/1
· नरः [naraḥ] = man = नर (m.) + कर्तरि to प्रारभते 1/1
· न्याय्यम् [nyāyyam] = proper = न्याय्य (n.) + adj. to कर्म 2/1
· वा [vā] = or = अव्ययम्
· विपरीतम् [viparītam] = opposite, improper = विपरीत (n.) + adj. to कर्म 2/1
· वा [vā] = or = अव्ययम्
· पञ्च [pañca] = five = पञ्चन् (m.) + adj. to एते 1/3
· एते [ete] = these = एतद् (pron.) + कर्तरि to (भवन्ति) 1/3
· तस्य [tasya] = of that (action) = तद् (pron.) + सम्बन्धे to हेतवः 6/1
· हेतवः [hetavaḥ] = causes = हेतु (m.) + S.C. to एते 1/3
That karma, whether proper or the opposite (improper), which a man undertakes with body, speech or mind, has these five causes.
Sentence 1:
नरः 1/1 न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 यत् 2/1 कर्म 2/1 शरीर-वाङ्-मनोभिः 3/3 प्रारभते III/1, तस्य 6/1 एते 1/3 पञ्च 1/3 हेतवः 1/3॥
That karma (कर्म 2/1), whether proper (न्याय्यम् 2/1 वा 0) or the opposite (विपरीतम् 2/1 वा 0) (improper), which (यत् 2/1) a man (नरः 1/1) undertakes (प्रारभते III/1) with body, speech or mind (शरीर-वाङ्-मनोभिः 3/3), has (तस्य 6/1) these (एते 1/3) five (पञ्च 1/3) causes (हेतवः 1/3).
शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम् , विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव ग्रहणेन गृहीतम् , पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥
ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति ?
नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति ।
फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.