यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८.२४ ॥
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || 18.24 ||
यत् 1/1 तु 0 कामेप्सुना 3/1 कर्म 1/1 साहङ्कारेण 3/1 वा 0 पुनः 0 ।
क्रियते III/1 बहुलायासम् 0 तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥
But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).
· यत् [yat] = that which = यद् (pron. n.) + adj. to कर्म 1/1
· तु [tu] = but = अव्ययम्
· कामेप्सुना [kāmepsunā] = by one who desires the result = कामेप्सु (m.) + कर्तरि to क्रियते 3/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1
· साहङ्कारेण [sāhaṅkāreṇa] = with arrogance = साहङ्कार (m.) adj. to कामेप्सुना 3/1
· वा [vā] = or = अव्ययम्
· पुनः [punaḥ] = again = अव्ययम्
· क्रियते [kriyate] = is done = कृ (8U) लट्/कर्मणि/III/1
· बहुलायासम् [bahulāyāsam] = with a lot of exertion = अव्ययम्
· तत् [tat] = that (action) = तद् (pron. n.) + कर्तरि to (भवति) 1/1
· राजसम् [rājasam] = rājasa = राजस (n.) + S.C. to तत् 1/1
· उदाहृतम् [udāhṛtam] = is called = उदाहृत (n.) + S.C. to तत् 1/1
But that karma which is done by one who has a (pronounced) desire for the result or again with arrogance (and) a lot of exertion is called rājasa.
Sentence 1:
यत् 1/1 तु 0 कर्म 1/1 कामेप्सुना 3/1 साहङ्कारेण 3/1 वा 0 पुनः 0 बहुलायासम् 0 क्रियते III/1, तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1॥
But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).
यत् 1/1 तु 0 कामेप्सुना 3/1 कर्मफलप्रेप्सुना इत्यर्थः, कर्म 1/1 साहङ्कारेण 3/1 इति न तत्त्वज्ञानापेक्षया । किं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षया । यो हि परमार्थनिरहङ्कारः आत्मवित् , न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति । सात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते “निरहङ्कारः अयं ब्राह्मणः” इति । तस्मात् तदपेक्षयैव “साहङ्कारेण वा 0” इति उक्तम् । पुनः-शब्दः पादपूरणार्थः । क्रियते III/1 बहुलायासम् 0 कर्त्रा महता आयासेन निर्वर्त्यते, तत् 1/1 कर्म राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.