अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८.१४ ॥
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam || 18.14 ||
अधिष्ठानम् 1/1 तथा 0 कर्ता 1/1 करणम् 1/1 च 0 पृथग्विधम् 1/1 ।
विविधाः 1/3 च 0 पृथक् 0 चेष्टाः 1/3 दैवम् 1/1 च 0 एव 0 अत्र 0 पञ्चमम् 1/1॥ १८.१४ ॥
· अधिष्ठानम् [adhiṣṭhānam] = physical body (seat of action) = अधिष्ठान (n.) + प्रातिपदिकार्थे 1/1
· तथा [tathā] = and also = अव्ययम्
· कर्ता [kartā] = the agent = कर्तृ (m.) + प्रातिपदिकार्थे 1/1
· करणम् [karaṇam] = the means (organs, instruments) = करण (n.) + प्रातिपदिकार्थे 1/1
· च [ca] = and = अव्ययम्
· पृथग्विधम् [pṛthagvidham] = manifold, of different kinds = पृथग्विध (n.) + adj. to करणम् 1/1
· विविधाः [vividhāḥ] = diverse = विविध (m.) + adj. to चेष्टाः 1/3
· च [ca] = and = अव्ययम्
· पृथक् [pṛthak] = separately, distinctly = अव्ययम्
· चेष्टाः [ceṣṭāḥ] = activities (movements, functions of prāṇas) = चेष्टा (f.) + प्रातिपदिकार्थे 1/3
· दैवम् [daivam] = the divine factor / presiding deity = दैव (n.) + प्रातिपदिकार्थे 1/1
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· अत्र [atra] = here = अव्ययम्
· पञ्चमम् [pañcamam] = the fifth = पञ्चम (n.) + adj. to दैवम् 1/1
(They are) the physical body, the agent, the manifold means (of action), the distinct and diverse activities (of the prāṇas), and indeed, daiva (the presiding deities) is the fifth here.
Sentence 1:
अधिष्ठानम् 1/1 तथा 0 कर्ता 1/1 पृथग्विधम् 1/1 करणम् 1/1 च 0 विविधाः 1/3 पृथक् 0 चेष्टाः 1/3 च 0 दैवम् 1/1 च 0 एव 0 अत्र 0 पञ्चमम् 1/1॥
(They are) the physical body (अधिष्ठानम् 1/1), the agent (कर्ता 1/1), the manifold (पृथग्विधम् 1/1) means (करणम् 1/1) (of action), the distinct (पृथक् 0) and (च 0) diverse (विविधाः 1/3) activities (चेष्टाः 1/3) (of the prāṇas), and (च 0) indeed (एव 0), daiva (दैवम् 1/1) (the presiding deities) is the fifth (पञ्चमम् 1/1) here (अत्र 0).
कानि तानीति, उच्यते —
अधिष्ठानम् 1/1 इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्तेराश्रयः अधिष्ठानं शरीरम् , तथा 0 कर्ता 1/1 उपाधिलक्षणः भोक्ता, करणम् 1/1 च 0 श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधम् 1/1 नानाप्रकारं तत् द्वादशसङ्ख्यं विविधाः 1/3 च 0 पृथक् 0 चेष्टाः 1/3 वायवीयाः प्राणापानाद्याः दैवम् 1/1 च 0 एव 0 दैवमेव च अत्र 0 एतेषु चतुर्षु पञ्चमम् 1/1 पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥ १८.१४॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.