ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८.१९ ॥
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi || 18.19 ||
ज्ञानम् 1/1 कर्म 1/1 च 0 कर्ता 1/1 च 0 त्रिधा 0 एव 0 गुणभेदतः 0 ।
प्रोच्यते III/1 गुणसङ्ख्याने 7/1 यथावत् 0 शृणु II/1 तानि 2/3 अपि 0 ॥ १८.१९ ॥
· ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to प्रोच्यते 1/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to प्रोच्यते 1/1
· च [ca] = and = अव्ययम्
· कर्ता [kartā] = agent = कर्तृ (m.) + कर्मणि to प्रोच्यते 1/1
· च [ca] = and = अव्ययम्
· त्रिधा [tridhā] = three-fold = अव्ययम्
· एव [eva] = only = अव्ययम्
· गुणभेदतः [guṇa-bhedataḥ] = according to the differences in guṇa = अव्ययम्
o गुणानां भेदः गुणभेदः (6T), तेन ।
· प्रोच्यते [procyate] = is said = प्र + वच् (2P) to speak + लट्/कर्मणि/III/1
· गुणसङ्ख्याने [guṇa-saṅkhyāne] = in the śāstra dealing with enumeration of guṇas = गुणसङ्ख्यान (n.) + अधिकरणे to प्रोच्यते 7/1
· यथावत् [yathāvat] = just as it is = अव्ययम्
· शृणु [śṛṇu] = listen = श्रु (1P) to hear + लोट्/कर्तरि/II/1
· तानि [tāni] = those = तद् (pron. n.), pointing to the knowledge, action and agent + कर्मणि to शृणु 2/3
· अपि [api] = also = अव्ययम्
Knowledge, action and agent are only three-fold according to the differences in guṇa, it is said in the śāstra dealing with the enumeration of the guṇas. Listen to those also just as it is (unfolded).
Sentence 1:
ज्ञानम् 1/1 कर्म 1/1 च 0 कर्ता 1/1 च 0 गुणभेदतः 0 त्रिधा 0 एव 0 गुणसङ्ख्याने 7/1 प्रोच्यते III/1।
Knowledge (ज्ञानम् 1/1), action (कर्म 1/1) and (च 0) agent (कर्ता 1/1) are only (एव 0) three-fold (त्रिधा 0) according to the differences in guṇa (गुणभेदतः 0), it is said (प्रोच्यते III/1) in the śāstra dealing with the enumeration of the guṇas (गुणसङ्ख्याने 7/1).
Sentence 2:
तानि 2/3 अपि 0 यथावत् 0 शृणु II/1॥
Listen (शृणु II/1) to those (तानि 2/3) also (अपि 0) just as it is (यथावत् 0) (unfolded).
अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आरभ्यते —
ज्ञानम् 1/1 कर्म 1/1 च 0, कर्म क्रिया, न कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता 1/1 च 0 निर्वर्तकः क्रियाणां त्रिधा 1/1 एव 0, अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः 0 सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते III/1 कथ्यते गुणसङ्ख्याने 7/1 कापिले शास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव । परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः । यथावत् 0 यथान्यायं यथाशास्त्रं शृणु II/1 तानि 2/3 अपि 0 ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १८.१९ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.