सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८.६४ ॥
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo:'si me dṛḍhamiti tato vakṣyāmi te hitam || 18.64 ||
सर्वगुह्यतमम् 2/1 भूयः 0 शृणु II/1 मे 6/1 परमम् 2/1 वचः 2/1।
इष्टः 1/1 असि II/1 मे 6/1 दृढम् 0 इति 0 ततः 0 वक्ष्यामि I/1 ते 6/1 हितम् 2/1॥ १८.६४ ॥
· सर्वगुह्यतमम् [sarvaguhyatamam] = the most secret of all = सर्वगुह्यतम (n.) + adj. to वचः 2/1
· भूयः [bhūyaḥ] = again = अव्ययम्
· शृणु [śṛṇu] = listen = श्रु (5P) to listen + लोट्/कर्तरि/II/1
· मे [me] = of me = अस्मद् (pron.) + सम्बन्धे to वचः 6/1
· परमम् [paramam] = highest, ultimate = परम (n.) + adj. to वचः 2/1
· वचः [vacaḥ] = statement, word = वचस् (n.) + कर्मणि to शृणु 2/1
· इष्टः [iṣṭaḥ] = beloved = इष्ट (m.) + S.C. to (त्वम्) 1/1
· असि [asi] = you are = अस् (2P) to be + लट्/कर्तरि/II/1
· मे [me] = to me = अस्मद् (pron.) + सम्बन्धे to इष्टः 6/1
· दृढम् [dṛḍham] = definitely, certainly = अव्ययम्
· इति [iti] = thus = अव्ययम्
· ततः [tataḥ] = therefore = अव्ययम्
· वक्ष्यामि [vakṣyāmi] = I will tell = वच् (2P) to tell + लृट्/कर्तरि/I/1
· ते [te] = of you = युष्मद् (pron.) + सम्बन्धे to हितम् 6/1
· हितम् [hitam] = what is good, beneficial = हित (n.) + कर्मणि to वक्ष्यामि 2/1
Again, listen to my ultimate statement, which is the most secret of all. You are definitely beloved to me, therefore, I will tell you, what is good.
Sentence 1:
भूयः 0 सर्वगुह्यतमम् 2/1 मे 6/1 परमम् 2/1 वचः 2/1 शृणु II/1।
Again (भूयः 0), listen (शृणु II/1) to my (मे 6/1) ultimate (परमम् 2/1) statement (वचः 2/1), which is the most secret of all (सर्वगुह्यतमम् 2/1).
Sentence 2:
मे 6/1 दृढम् 0 इष्टः 1/1 असि II/1 इति 0 ततः 0 ते 6/1 हितम् 2/1 वक्ष्यामि I/1॥
You are (असि II/1) definitely (दृढम् 0) beloved (इष्टः 1/1) to me (मे 6/1), therefore (इति 0 ततः 0), I will tell (वक्ष्यामि I/1) you, what is good (हितम् 2/1) for you (ते 6/1).
सर्वगुह्यतमम् 2/1 सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम् , उक्तमपि असकृत् भूयः 0 पुनः शृणु II/1 मे 6/1 मम परमम् 2/1 प्रकृष्टं वचः 2/1 वाक्यम् । न भयात् नापि अर्थकारणाद्वा वक्ष्यामि ; किं तर्हि ? इष्टः 1/1 प्रियः असि II/1 मे 6/1 मम दृढम् 0 अव्यभिचारेण इति 0 कृत्वा ततः 0 तेन कारणेन वक्ष्यामि I/1 कथयिष्यामि ते 6/1 तव हितम् 2/1 परमं ज्ञानप्राप्तिसाधनम् , तद्धि सर्वहितानां हिततमम् ॥ १८.६४ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.