ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८.५४ ॥
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām || 18.54 ||
ब्रह्मभूतः 1/1 प्रसन्नात्मा 1/1 न 0 शोचति III/1 न 0 काङ्क्षति III/1 ।
समः 1/1 सर्वेषु 7/3 भूतेषु 7/3 मद्भक्तिम् 2/1 लभते III/1 पराम् 2/1 ॥ १८.५४ ॥
· ब्रह्मभूतः [brahmabhūtaḥ] = the one who has ‘become’ Brahman = ब्रह्मभूत (m.) + कर्तरि to शोचति 1/1
· प्रसन्नात्मा [prasannātmā] = whose mind is cheerful = प्रसन्नात्मन् (m.) + कर्तरि to शोचति 1/1
o प्रसन्नः आत्मा अन्तःकरणं यस्य सः प्रसन्नात्मा (116B)
· न [na] = not = अव्ययम्
· शोचति [śocati] = grieves = शुच् (6P) to grieve + लट्/कर्तरि/1/1
· न [na] = not = अव्ययम्
· काङ्क्षति [kāṅkṣati] = longs for = काम् (1P) to desire + लट्/कर्तरि/1/1
· समः [samaḥ] = the one who is equal (towards all beings) = सम (m.) + कर्तरि to लभते 1/1
· सर्वेषु [sarveṣu] = in all = सर्व (adj.) + adj. to भूतेषु 7/3
· भूतेषु [bhūteṣu] = beings = भूत (n.) + अधिकरणे to समः (भवति) 7/3
· मद्भक्तिम् [madbhaktim] = devotion to me = मद्भक्ति (f.) + कर्मणि to लभते 2/1
· लभते [labhate] = obtains = लभ् (1A) to obtain + लट्/कर्तरि/1/1
· पराम् [parām] = highest = परा (f.) + विशेषणम् to भक्तिम् 2/1
The one who has ‘become’ Brahman (has recognised oneself as Brahman), whose mind is cheerful, does not grieve or long for anything. That person for whom all beings are the same (as himself) gains the highest devotion to me.
Sentence 1:
ब्रह्मभूतः 1/1 प्रसन्नात्मा 1/1 न 0 शोचति III/1 न 0 काङ्क्षति III/1।
The one who has ‘become’ Brahman (ब्रह्मभूतः 1/1) (has recognised oneself as Brahman), whose mind is cheerful (प्रसन्नात्मा 1/1), does not grieve (न 0 शोचति III/1) or long for anything (न 0 काङ्क्षति III/1).
Sentence 2:
सर्वेषु 7/3 भूतेषु 7/3 समः 1/1 पराम् 2/1 मद्भक्तिम् 2/1 लभते III/1॥
That person for whom all (सर्वेषु 7/3) beings (भूतेषु 7/3) are the same (समः 1/1) (as himself) gains (लभते III/1) the highest (पराम् 2/1) devotion to me (मद्भक्तिम् 2/1).
अनेन क्रमेण —
ब्रह्मभूतः 1/1 ब्रह्मप्राप्तः प्रसन्नात्मा 1/1 लब्धाध्यात्मप्रसादस्वभावः न 0 शोचति III/1, किञ्चित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य न शोचति न सन्तप्यते ; न 0 काङ्क्षति III/1, न हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते — न शोचति न काङ्क्षति इति । “न हृष्यति” इति वा पाठान्तरम् । समः 1/1 सर्वेषु 7/3 भूतेषु 7/3, आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः । न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् “भक्त्या मामभिजानाति” (भ. गी. १८ । ५५) इति । एवंभूतः ज्ञाननिष्ठः, मद्भक्तिम् 2/1 मयि परमेश्वरे भक्तिं भजनं पराम् 2/1 उत्तमां ज्ञानलक्षणां चतुर्थीं लभते III/1, “चतुर्विधा भजन्ते माम्” (भ. गी. ७ । १६) इति हि उक्तम् ॥ १८.५४ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.