विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८.५२ ॥
viviktasevī laghvāśī yatavākkāyamānasaḥ|
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ || 18.52 ||
विविक्तसेवी 1/1 लघ्वाशी 1/1 यतवाक्कायमानसः 1/1।
ध्यानयोगपरः 1/1 नित्यम् 0 वैराग्यम् 2/1 समुपाश्रितः 1/1॥ १८.५२ ॥
· विविक्तसेवी [viviktasevī] = who lives in a quiet place = विविक्तसेविन् (m.) + adj. to (युक्तः in the 51st verse) 1/1
· लघ्वाशी [laghvāśī] = who eats lightly = लघ्वाशिन् (m.) + adj. to (युक्तः in the 51st verse) 1/1
o लघु + अश् (9P) to eat + णिनिँ (कर्तरि)
· यतवाक्कायमानसः [yatavākkāyamānasaḥ] = whose speech, body and mind are mastered = यत-वाक्-काय-मानस (m.) + adj. to (युक्तः in the 51st verse) 1/1
· ध्यानयोगपरः [dhyānayogaparaḥ] = who is always committed to contemplation = ध्यानयोगपर (m.) + adj. to (युक्तः in the 51st verse) 1/1
· नित्यम् [nityam] = always = अव्ययम्
· वैराग्यम् [vairāgyam] = freedom from longing = वैराग्य (n.) + कर्मणि to समुपाश्रितः 2/1
· समुपाश्रितः [samupāśritaḥ] = who has completely resorted to = समुपाश्रित (m.) + कर्तरि to (भवति) 1/1
o सम् + उप + आङ् + श्रि + क्त (कर्तरि)
… who lives in a quiet place, who eats lightly, whose speech, body and mind are mastered, who is always committed to contemplation, who has completely resorted to freedom from longing …
Sentence 1:
विविक्तसेवी 1/1 लघ्वाशी 1/1 यतवाक्कायमानसः 1/1 नित्यम् 0 ध्यानयोगपरः 1/1 वैराग्यम् 2/1 समुपाश्रितः 1/1॥
… who lives in a quiet place (विविक्तसेवी 1/1), who eats lightly (लघ्वाशी 1/1), whose speech, body and mind are mastered (यतवाक्कायमानसः 1/1), who is always (नित्यम् 0) committed to contemplation (ध्यानयोगपरः 1/1), who has completely resorted (समुपाश्रितः 1/1) to freedom from longing (वैराग्यम् 2/1) …
विविक्तसेवी 1/1 अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी 1/1 लघ्वशनशीलः — विविक्तसेवालघ्वशनयोः निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम् ; यतवाक्कायमानसः 1/1 वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञाननिष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात् । एवम् उपरतसर्वकरणः सन् ध्यानयोगपरः 1/1 ध्यानम् आत्मस्वरूपचिन्तनम् , योगः आत्मविषये एकाग्रीकरणम् तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यम् 0 नित्यग्रहणं मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम् , वैराग्यम् 2/1 विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः 1/1 सम्यक् उपाश्रितः नित्यमेव इत्यर्थः ॥ १८.५२ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.