तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३.२८॥
tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate ||3.28||
तत्त्ववित् 1/1 तु 0 महाबाहो S/1 गुणकर्मविभागयोः 6/2 ।
गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3 इति 0 मत्वा 0 न 0 सज्जते III/1 ॥३.२८॥
· तत्त्ववित् [tattvavit] = the knower of the truth = तत्त्वविद् (m.) + 1/1
o तत्त्वं वेत्ति इति तत्त्ववित् (UT)
तत्त्व + अम् + विद् + क्विप्
· तु [tu] = whereas = अव्ययम्
· महाबाहो [mahābāho] = Oh! The one who has great arms = महाबाहु (m.) + सम्बोधने 1/1
· गुणकर्मविभागयोः [guṇakarmavibhāgayoḥ] = of the distinction between body-mind-sense-complex and action = गुणकर्मविभाग (m.) + कर्मणि to तत्त्ववित् 6/2
· गुणाः [guṇāḥ] = the senses, mind, and organs of action = गुण (m.) + कर्तरि to वर्तन्ते 1/3
· गुणेषु [guṇeṣu] = with reference to their respective objects = गुण (m.) + अधिकरणे to वर्तन्ते 7/3
· वर्तन्ते [vartante] = engage themselves = वृत् (1A) to engage + लट्/कर्तरि/III/3
· इति [iti] = thus = अव्ययम्
· मत्वा [matvā] = knowing = अव्ययम्
· न [na] = not = अव्ययम्
· सज्जते [sajjate] = is bound = सस्ज् (1P) to be attached + लट्/कर्तरि/III/1
o
o षस्ज्
o सस्ज् 6.1.64 धात्वादेः सः षः।
o सस्ज् + लट् 3.2.123 वर्तमाने लट् ।
o सस्ज् + ते 3.4.78, 3.4.79 टित आत्मनेपदानां टेरे।
(It is stated “अयमात्मनेपद्यपि” in कौमुदी.)
o सस्ज् + शप् + ते 3.1.68 कर्तरि शप्।
o स श् ज् + अ + ते 8.4.40 स्तोः श्चुना श्चुः ।
o स ज् ज् + अ + ते 8.4.53 झलां जश् झशि ।
Whereas, Oh! Arjuna, the knower of the truth, knowing the distinction between body-mind-sense-complex and action, knowing that the senses, mind, and organs of action engage themselves with reference to their respective objects alone is not bound.
Sentence 1:
महाबाहो S/1 तु 0 गुणकर्मविभागयोः 6/2 तत्त्ववित् 1/1 गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3 इति 0 मत्वा 0 न 0 सज्जते III/1 ॥३.२८॥
Whereas (तु 0), Oh! Arjuna (महाबाहो S/1), the knower of the truth (तत्त्ववित् 1/1), knowing the distinction between body-mind-sense-complex and action (गुणकर्मविभागयोः 6/2), knowing (इति 0 मत्वा 0) that the senses, mind, and organs of action (गुणाः 1/3) engage themselves (वर्तन्ते III/3) with reference to their respective objects alone (गुणेषु 7/3) is not bound (न 0 सज्जते III/1).
यः 1/1 पुनः 0 विद्वान् 1/1 –
तत्त्ववित् 1/1 तु 0 महाबाहो S/1। कस्य 6/1 तत्त्ववित् 1/1? गुण-कर्म-विभागयोः 6/2 गुण-विभागस्य 6/1 कर्म-विभागस्य 6/1 च 0 तत्त्ववित् 1/1 इत्यर्थः 1/1। गुणाः 1/3 करण-आत्मकाः 1/3 गुणेषु 7/3 विषयात्मकेषु 7/3 वर्तन्ते III/3 न 0 आत्मा 1/1 इति 0 मत्वा 0 न 0 सज्जते III/1 सक्तिम् 2/1 न 0 करोति III/1॥
१. गुणकर्मविभाग (m.) + कर्मणि to तत्त्ववित् 6/2
ReplyDeleteकर्मणि to --> सम्बन्धे to
२. सस्ज् (1P) उभयपदी अत्र आत्मनेपदी
1. This is कर्मणि षष्ठी by 2.3.65 कर्तृकर्मणोः कृति।.
ReplyDelete2. I think this is आर्षप्रयोग.
Regarding सज्जते [sajjate] = is bound = सस्ज् , might the धातु be सञ्ज् rather than सस्ज् ?
ReplyDeleteAs far as I know, सञ्ज् does not become सज्जते.
Delete