कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३.६॥
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||3.6||
कर्मेन्द्रियाणि 2/3 संयम्य 0 यः 1/1 आस्ते III/1 मनसा 3/1 स्मरन् 1/1 ।
इन्द्रियार्थान् 2/3 विमूढात्मा 1/1 मिथ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥
· कर्मेन्द्रियाणि [karmendriyāṇi] = organs of action = कर्मेन्द्रिय (n.) + 2/3
o कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तानि।
· संयम्य [saṃyamya] = controlling = अव्ययम्
o सम् + यम् उपरमे to check + ल्यप्
· यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आस्ते 1/1
· आस्ते [āste] = sits = आस् उपवेशने (2A) to sit + लट्/कर्तरि/III/1
· मनसा [manasā] = with the mind = मनस् (n.) + 3/1
· स्मरन् [smaran] = remembering = स्मरत् (m.) + adj. to यः (पुरुषः) 1/1
· इन्द्रियार्थान् [indriyārthān] = organs of action = इन्द्रियार्थ (m.) + 2/3
o इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तान् ।
· विमूढात्मा [vimūḍhātmā] = deluded = विमूढात्मन् (m.) + adj. to यः (पुरुषः) 1/1
o विमूढः आत्मा अन्तःकरणं यस्य सः विमूढात्मा (116B) ।
· मिथ्याचारः [mithyācāraḥ] = a person of false conduct = मिथ्याचार (m.) + adj. to सः (पुरुषः) 1/1
o मिथ्या मृषा आचारः यस्य सः मिथ्याचारः (116B) ।
· सः [saḥ] = he = तद् (pron. m.) + कर्मणि to उच्यते 1/1
· उच्यते [ucyate] = is called = वच् to say + लट्/कर्मणि/III/1
The one who, controlling the organs of action, sits with the mind remembering the sense objects is deluded and is called a person of false conduct.
Sentence:
यः 1/1 विमूढात्मा 1/1 कर्मेन्द्रियाणि 2/3 संयम्य 0 मनसा 3/1 इन्द्रियार्थान् 2/3 स्मरन् 1/1 आस्ते III/1
सः 1/1 मिथ्याचारः 1/1 उच्यते III/1 ॥३.६॥
The one (सः 1/1) who (यः 1/1), controlling (संयम्य 0) the organs of action (कर्मेन्द्रियाणि 2/3), sits (आस्ते III/1) with the mind (मनसा 3/1) remembering (स्मरन् 1/1) the sense objects (इन्द्रियार्थान् 2/3) is deluded (विमूढात्मा 1/1) and is called (मिथ्याचारः 1/1) a person of false conduct (उच्यते III/1).
यः 1/1 तु 0 अनात्मज्ञः 1/1 चोदितम् 2/1 कर्म 2/1 न 0 आरभते III/1 इति 0 तत् 1/1 असत् 1/1 एव 0 इति 0 आह III/1 –
कर्मेन्द्रियाणि 2/3 = हस्तादीनि 2/3 संयम्य 0 = संहृत्य 0 यः 1/1 आस्ते III/1 तिष्ठति III/1 मनसा 3/1 स्मरन् 1/1 = चिन्तयन् 1/1 इन्द्रियार्थान् 2/3 = विषयान् 2/3, विमूढात्मा 1/1 = विमूढ-अन्तःकरणः 1/1 मिथ्याचारः 1/1 = मृषाचारः 1/1 = पापाचारः 1/1 सः 1/1 उच्यते III/1॥
बहुव्रीहिसमासः
मिथ्या 0 आचारः 1/1 यस्य 6/1 सः 1/1 मिथ्याचारः 1/1 = पुरुषः 1/1
मृषा 0 आचारः 1/1 यस्य 6/1 सः 1/1 मृषाचारः 1/1 = पुरुषः 1/1
पापम् 1/1 आचारः 1/1 यस्य 6/1 सः 1/1 पापाचारः 1/1 = पुरुषः 1/1
विमूढः 1/1 आत्मा 1/1 यस्य 6/1 सः 1/1 विमूढात्मा 1/1 = पुरुषः 1/1
विमूढम् n1/1 अन्तःकरणम् n1/1 यस्य 6/1 सः 1/1 विमूढान्तःकरणः m1/1 = पुरुषः 1/1
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.