Saturday, November 29, 2025

18th Chapter 9th Sloka

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८.९ ॥

 

kāryamityeva yatkarma niyataṃ kriyate'rjuna |

saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || 18.9 ||

 

कार्यम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 क्रियते III/1 अर्जुन S/1

सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 0 एव 0 सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1॥ १८.९ ॥

 

 

·       कार्यम् [kāryam] = to be done = कार्य (n.) + कर्तरि to (भवति) 1/1

·       इति [iti] = thus = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       यत् [yat] = that which = यद् (pron.) + adj. to कर्म 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1

·       नियतम् [niyatam] = enjoined = नियत (n.) + adj. to कर्म 1/1

·       क्रियते [kriyate] = is done = कृ (8U) to do + लट्/कर्मणि/III/1

·       अर्जुन [arjuna] = O Arjuna = अर्जुन (m.) + संबोधने 1/1

·       सङ्गम् [saṅgam] = attachment = सङ्ग (m.) + कर्मणि to त्यक्त्वा 2/1

·       त्यक्त्वा [tyaktvā] = having given up = अव्ययम्

o   त्यज् (1P) to give up + क्त्वा

·       फलम् [phalam] = result = फल (n.) + कर्मणि to त्यक्त्वा 2/1

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       सः [saḥ] = that (renunciation) = तद् (pron.) + adj. to त्यागः 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + कर्तरि to (भवति) 1/1

·       सात्त्विकः [sāttvikaḥ] = sāttvika = सात्त्विक (m.) + S.C. to त्यागः 1/1

·       मतः [mataḥ] = is considered = मत (m.) + S.C. to त्यागः S.C. to त्यागः 1/1

o   मन् (4P) to think + क्त (कर्मणि)

 

 

“It is to be done,” thinking thus when only the enjoined karma is done, giving up attachment and result, Arjuna! it is considered to be a sāttvika renunciation.

 

 

Sentence 1:

कार्यम् 1/1 इति 0 सङ्गम् 2/1 फलम् 2/1 0 एव 0 त्यक्त्वा 0 यत् 1/1 नियतम् 1/1 कर्म 1/1 एव 0 क्रियते III/1 अर्जुन S/1

“It is to be done (कार्यम् 1/1),” thinking thus (इति 0) when only (एव 0) the enjoined (यत् 1/1 नियतम् 1/1) karma (कर्म 1/1) is done (क्रियते III/1), giving up (त्यक्त्वा 0) attachment (सङ्गम् 2/1) and ( 0 एव 0) result (फलम् 2/1), Arjuna (अर्जुन S/1)!

 

Sentence 2:

सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1

It (सः 1/1) is considered (मतः 1/1) to be a sāttvika (सात्त्विकः 1/1) renunciation (त्यागः 1/1).

 

 

 

कः पुनः सात्त्विकः त्यागः इति, आह

कार्यम् 1/1 कर्तव्यम् इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 नित्यं क्रियते III/1 निर्वर्त्यते हे अर्जुन S/1, सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 0 एव 0 । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति फलं त्यक्त्वाइत्यनेन । अतः साधु उक्तम् सङ्गं त्यक्त्वा फलं चइति । सः 1/1 त्यागः 1/1 नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः 1/1 सत्त्वनिर्वृत्तः मतः 1/1 अभिप्रेतः ॥

ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः । तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते स त्यागः सात्त्विको मतःइति ॥ १८.९ ॥

 

18th Chapter 8th Sloka

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८.८ ॥

 

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |

sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || 18.8 ||

 

दुःखम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 2/1 काय-क्लेश-भयात् 5/1 त्यजेत् III/1

सः 1/1 कृत्वा 0 राजसम् 2/1 त्यागम् 2/1 0 एव 0 त्याग-फलम् 2/1 लभेत् III/1॥ १८.८ ॥

 

 

·       दुःखम् [duḥkham] = painful = दुःख (n.) + S.C. to (कर्म)1/1

·       इति [iti] = thus = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       यत् [yat] = that which = यद् (pron.) + adj. to (कर्म) 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to त्यजेत् 2/1

·       काय-क्लेश-भयात् [kāya-kleśa-bhayāt] = out of fear of affliction to the body = कायक्लेशभय (n.) + हेतौ to त्यजेत् 5/1

·       त्यजेत् [tyajet] = one may give up = त्यज् (1P) to abandon + विधिलिङ्/कर्तरि/III/1

·       सः [saḥ] = he = तद् (pron.) + कर्तरि to लभेत् 1/1

·       कृत्वा [kṛtvā] = having done = अव्ययम्

o   कृ (8U) to do + क्त्वा

·       राजसम् [rājasam] = rājasika = राज(m.) + adj. to त्यागम् 2/1

·       त्यागम् [tyāgam] = renunciation = त्याग (m.) + कर्मणि 2/1

·       न [na] = not = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       त्यागफलम् [tyāga-phalam] = fruit of renunciation = त्यागफल (n.) + कर्मणि 2/1

·       लभेत् [labhet] = would obtain = लभ् (1A) to obtain + विधिलिङ्/कर्तरि/III/1

 

 

One may give up the karma as indeed painful out of fear of affliction to one’s physical body. Having done that rājasika renunciation, one would certainly not gain the result of renunciation.

 

Sentence 1:

यत् 1/1 दुःखम् 1/1 इति 0 काय-क्लेश-भयात् 5/1 एव 0 (तत् 2/1) कर्म 2/1 त्यजेत् III/1

One may give up (त्यजेत् III/1) the karma (कर्म 2/1) as (यत् 1/1) indeed (एव 0) painful (दुःखम् 1/1) out of fear of affliction to one”s physical body (काय-क्लेश-भयात् 5/1).

 

 

 

Sentence 2:

सः 1/1 राजसम् 2/1 त्यागम् 2/1 कृत्वा 0 त्याग-फलम् 2/1 0 एव 0 लभेत् III/1

Having done (कृत्वा 0) that rājasika (राजसम् 2/1) renunciation (त्यागम् 2/1), one (सः 1/1) would certainly (एव 0) not ( 0) gain (लभेत् III/1) the result of renunciation (त्याग-फलम् 2/1).

 

 

किंच

दुःखम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 2/1 काय-क्लेश-भयात् 5/1 शरीर-दुःखभयात् 5/1 त्यजेत् III/1, सः 1/1 कृत्वा 0 राजसम् 2/1 रजोनिर्वर्त्यम् 2/1 त्यागम् 2/1 0 एव 0 त्याग-फलम् 2/1 ज्ञानपूर्वकस्य 6/1 सर्वकर्म-त्यागस्य 6/1 फलम् 2/1 मोक्षाख्यम् 2/1 0 लभेत् III/1 नैव 0 लभेत III/1॥ १८.८॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.