Saturday, October 24, 2015

2nd Chapter 58th Sloka

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२.५८॥

 

yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ |

indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2.58||

 

यदा 0 संहरते III/1 च 0 अयम् 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 सर्वशः 0 ।

इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥

 

·       यदा [yadā] = when = अव्ययम्

·       संहरते [saṃharate] = withdraws = सम् + हृ हरणे+ लट्/कर्तरि/III/1

·       च [ca] = and = अव्ययम्

·       अयम् [ayam] = this = इदम् (pron. m.) +  1/1

·       कूर्मः [kūrmaḥ] = turtle = कूर्म (m.) +  1/1

·       अङ्गानि [aṅgāni] = limbs = अङ्ग (n.) +  2/3

·       इव [iva] = just as = अव्ययम्

·       सर्वशः [sarvaśaḥ] = completely = अव्ययम्

o   सर्व + शस्

·       इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) +  2/3

·       इन्द्रियार्थेभ्यः [indriyārthebhyaḥ] = from sense objects= इन्द्रियार्थ (m.) +  5/3

o   इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेभ्यः

·       तस्य [tasya] = his = तद् (pron. m.) + 6/1

·       प्रज्ञा [prajñā] = knowledge  = प्रज्ञा (f.) +  1/1

·       प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (f.) +  1/1

o   प्रति + स्था to abide + क्त + टाप्

o   ष्ठा गतिनिवृत्तौ

स्ठा             6.1.64 धात्वादेः षः सः ।

स्था             निमित्तापाये नैमित्तास्याप्यपायः ।

स्था + क्त     3.2.102 निष्ठा । ~ भूते

स्थ् इ + त     7.4.40 द्यतिस्यतिमास्थामित् ति किति ।

स्थित + टाप्              4.1.4 अजाद्यतष्टाप् । ~ स्त्रियाम्

प्रति + स्थिता              2.2.18 कुगतिप्रादयः । ~ तत्पुरुषः समासः

प्रति + ष् थिता             8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभति-स्थासेनयसेधसिचसञ्जस्वञ्जाम् । ~ अपदान्तस्य मूर्धन्यः सः इण्कोः

प्रति + ष्ठिता  8.4.41 ष्टुना ष्टुः । ~ स्तोः

 

And when, like the turtle that withdraws its limbs,  this person is able to completely withdraw the sense organs from their objects, his knowledge is steady.

 

 

Sentence 1:

यदा 0 च 0 कूर्मः 1/1 अङ्गानि 2/3 सर्वशः 0 संहरते III/1 इव 0 अयम् 1/1 (पुरुषः) इन्द्रियार्थेभ्यः 5/3 इन्द्रियाणि 2/3 (संहरते)।

(तदा) तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥

And (च 0) when (यदा 0), like (इव 0) the turtle (कूर्मः 1/1) that withdraws (संहरते III/1) its limbs (अङ्गानि 2/3),  this person (अयम् 1/1) is able to completely (सर्वशः 0) withdraw the sense organs (इन्द्रियाणि 2/3) from their objects (इन्द्रियार्थेभ्यः 5/3), his (तस्य 6/1) knowledge (प्रज्ञा 1/1) is steady (प्रतिष्ठिता 1/1).

 


 

किञ्च 0 –

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता  ॥2.58॥

यदा 0 संहरते III/1 सम्यक् 0 उपसंहरते III/1 च 0 अयम् 1/1 ज्ञाननिष्ठायाम् 7/1 प्रवृत्तः 1/1 यतिः 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 यथा 0 (just as) कूर्मः 1/1 भयात् H5/1 स्वानि 2/3 अङ्गानि 2/3 उपसंहरति III/1 सर्वशः 0 सर्वतः 0, एवम् 0 ज्ञाननिष्ठः 1/1 इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः A5/3 सर्वविषयेभ्यः A5/3 उपसंहरते III/1। तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 इति 0 उक्तार्थम् 1/1 वाक्यम् 1/1॥

 

उक्तः 1/1 अर्थः 1/1 यस्य 6/1 तत् 1/1 उक्तार्थम् 1/1 वाक्यम् 1/1।

116B

समासः = उक्तार्थम्

अन्यपदार्थः = वाक्यम्

 

 

Saturday, October 17, 2015

2nd Chapter 57th Sloka

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२.५७॥

 

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2.57||

 

यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 ।

न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥

 

·       यः [yaḥ] = one who = यद् (pron. m.) +  1/1

·       सर्वत्र [sarvatra] = in all situations= अव्ययम्

·       अनभिस्नेहः [unattached] = one who is not affected= अनभिस्नेह (m.) +  1/1

o   न (not) अभिस्नेहः (possesively attached) इति अनभिस्नेहः (NT)

·       तत् [tat] = in pleasures = तद् (n.) + 2/1

·       प्राप्य [prāpya] = having gained = अव्ययम्

o   प्र + आप् + ल्यप्

·       शुभाशुभम् [śubhāśubham] = pleasant and unpleasant  = शुभाशुभ (n.) +  2/1

o   शुभं (pleasant) च अशुभं (unpleasant) शुभाशुभम् । (pleasant and unpleasant ) SD

·       न [na] = does not = अव्ययम्

·       अभिनन्दति [abhinandati] = rejoice = अभि + नन्द् + लट्/कर्तरि/III/1

·       न [na] = does not = अव्ययम्

·       द्वेष्टि [dveṣṭi] = hate = द्विष् + लट्/कर्तरि/III/1

·       तस्य [tasya] = his = तद् (pron. m.) + 6/1

·       प्रज्ञा [prajñā] = knowledge  = प्रज्ञा (pron. m.) +  1/1

·       प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (pron. m.) +  1/1

 

For the one who is unattached in all situations,  who does neither rejoices on gaining the pleasant and nor hates the unpleasant, his knowledge is well-established.

 

 

Sentence 1 (यद्-close):

यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 शुभाशुभम् 2/1 प्राप्य 0 न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1 ।

The one (यः 1/1) who is without attachment (अनभिस्नेहः 1/1) in all situations (सर्वत्र 0), gaining (प्राप्य 0) whatever (तत् 2/1 तत् 2/1) pleasure and pain (शुभाशुभम् 2/1), neither (न 0) rejoices (अभिनन्दति III/1) nor (न 0) hates (द्वेष्टि III/1),

 

Sentence 2 (तद्-close):

तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥

His (तस्य 6/1) knowledge (प्रज्ञा 1/1) is well established (प्रतिष्ठिता 1/1).

 

किञ्च 0 –

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।

यः 1/1 मुनिः 1/1 सर्वत्र 0 देह-जीवित-आदिषु V7/3 अपि 0 अनभिस्नेहः 1/1 अभिस्नेह-वर्जितः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 तत् 2/1 तत् 2/1 शुभम् 2/1 अशुभम् 2/1 वा 0 लब्ध्वा 0 न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1 शुभम् 2/1 प्राप्य 0 न 0 तुष्यति III/1 न 0 हृष्यति III/1, अशुभम् 2/1 च 0 प्राप्य 0 न 0 द्वेष्टि III/1 इत्यर्थः 1/1। तस्य 6/1 एवम् 0 हर्ष-विषाद-वर्जितस्य 6/1 विवेक-जा 1/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 भवति III/1॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.