Tuesday, December 2, 2025

18th Chapter 21st Sloka

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८.२१ ॥

 

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān |

vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam || 18.21 ||

 

पृथक्त्वेन 3/1 तु 0 यत् 1/1 ज्ञानम् 1/1 नानाभावान् 2/3 पृथक्-विधान् 2/3 ।

वेत्ति III/1 सर्वेषु 7/3 भूतेषु 7/3 तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 राजसम् 2/1 ॥ १८.२१ ॥

 

 

 

·       पृथक्त्वेन [pṛthaktvena] = as distinctness = पृथक्त्व (n.) + प्रकृत्यादि 3/1

·       तु [tu] = on the other hand = अव्ययम्

·       यत् [yat] = that which = यद् (pron. n.) + adj. to ज्ञानम् 1/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्तरि to वेत्ति 1/1

·       नानाभावान् [nānābhāvān] = manifold natures = नानाभाव (m.) + कर्मणि to वेत्ति 2/3

·       पृथक्-विधान् [pṛthag-vidhān] = different kinds = पृथक्-विधान (m.) + कर्मणि to वेत्ति 2/3

·       वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1

·       सर्वेषु [sarveṣu] = among all = सर्व (pron. n.) + adj. to भूतेषु 7/3

·       भूतेषु [bhūteṣu] = among beings = भूत (n.) + अधिकरणे to वेत्ति 7/3

·       तत् [tat] = that = तद् (pron. n.) + adj. to ज्ञानम् 2/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to विद्धि 2/1

·       विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1

·       राजसम् [rājasam] = rājasa = राजस (n.) + O.C. to ज्ञानम् 2/1

 

 

On the other hand, may you know that knowledge by which one knows distinctly the manifold nature of different kinds of beings, as rājasa.

 

 

Sentence 1:

यत् 1/1 तु 0 ज्ञानम् 1/1 सर्वेषु 7/3 भूतेषु 7/3 नानाभावान् 2/3 पृथक्-विधान् 2/3 पृथक्त्वेन 3/1 वेत्ति III/1, तत् 2/1 ज्ञानम् 2/1 राजसम् 2/1 विद्धि II/1॥

On the other hand (तु 0), may you know (विद्धि II/1) that (यत् 1/1) knowledge (ज्ञानम् 1/1) by which one knows (वेत्ति III/1) distinctly (पृथक्त्वेन 3/1) the manifold nature (नानाभावान् 2/3) of different kinds (पृथक्-विधान् 2/3) with reference to all (सर्वेषु 7/3) beings (भूतेषु 7/3), as rājasa (राजसम् 2/1).

 

 

यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति —

पृथक्त्वेन 3/1 तु 0 भेदेन प्रतिशरीरम् अन्यत्वेन यत् 1/1 ज्ञानम् 1/1 नानाभावान् 2/3 भिन्नान् 2/3 आत्मनः पृथक्-विधान् 2/3 पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति III/1 विजानाति यत् ज्ञानं सर्वेषु 7/3 भूतेषु 7/3, ज्ञानस्य कर्तृत्वासम्भवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 राजसम् 2/1 रजोगुणनिर्वृत्तम् ॥ १८.२१ ॥

 

 

 

18th Chapter 20th Sloka

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८.२० ॥

 

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |

avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam || 18.20 ||

 

सर्वभूतेषु 7/3 येन 3/1 एकम् 2/1 भावम् 2/1 अव्ययम् 2/1 ईक्षते III/1 ।

अविभक्तम् 2/1 विभक्तेषु 7/3 तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 सात्त्विकम् 2/1 ॥ १८.२० ॥

 

 

·       सर्वभूतेषु [sarvabhūteṣu] = among all beings = सर्वभूत (n.) + अधिकरणे 7/3

·       येन [yena] = by which = यद् (pron.) + करणे to ईक्षते 3/1

·       एकम् [ekam] = one = एक (n.) + adj. to भावम् 2/1

·       भावम् [bhāvam] = existence, reality = भाव (m.) + कर्मणि to ईक्षते 2/1

·       अव्ययम् [avyayam] = immutable = अव्यय (n.) + adj. to भावम् 2/1

·       ईक्षते [īkṣate] = sees, knows = ईक्ष् (1A) to see + लट्/कर्तरि/III/1

·       अविभक्तम् [avibhaktam] = undivided = अविभक्त (n.) + कर्मणि to ईक्षते 2/1

·       विभक्तेषु [vibhakteṣu] = among the divided = विभक्त (n.) + अधिकरणे to ईक्षते 7/3

·       तत् [tat] = that = तद् (pron.) + adj. to ज्ञानम् 2/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to विद्धि 2/1

·       विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1

·       सात्त्विकम् [sāttvikam] = sāttvika = सात्त्विक (n.) + O.C. to ज्ञानम् 2/1

 

 

Know that to be sāttvika knowledge by which one knows one changeless existence in all things (and beings) and the undivided among the divided.

 

 

Sentence 1:

येन 3/1 सर्वभूतेषु 7/3 एकम् 2/1 अव्ययम् 2/1 भावम् 2/1 विभक्तेषु 7/3 अविभक्तम् 2/1 ईक्षते III/1, तत् 2/1 ज्ञानम् 2/1 सात्त्विकम् 2/1 विद्धि II/1॥

Know (विद्धि II/1) that (तत् 2/1) to be sāttvika (सात्त्विकम् 2/1) knowledge (ज्ञानम् 2/1) by which (येन 3/1) one knows (ईक्षते III/1) one (एकम् 2/1) changeless (अव्ययम् 2/1) existence (भावम् 2/1) in all things (सर्वभूतेषु 7/3) (and beings) and the undivided (अविभक्तम् 2/1) among the divided (विभक्तेषु 7/3).

 

 

ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते III/1 —

सर्वभूतेषु 7/3 अव्यक्तादिस्थावरान्तेषु भूतेषु येन 3/1 ज्ञानेन एकम् 1/1 भावम् 1/1 वस्तु — भावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः ; अव्ययम् 1/1 न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः ; ईक्षते III/1 पश्यति III/1 येन ज्ञानेन, तं च भावम् अविभक्तम् 2/1 प्रतिदेहं विभक्तेषु 7/3 देहभेदेषु न विभक्तं तत् आत्मवस्तु, व्योमवत् निरन्तरमित्यर्थः ; तत् 2/1 ज्ञानम् 2/1 साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकम् 2/1 विद्धि II/1 इति ॥ १८.२०॥

 

 

 

18th Chapter 19th Sloka

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८.१९ ॥

 

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |

procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi || 18.19 ||

 

ज्ञानम् 1/1 कर्म 1/1 च 0 कर्ता 1/1 च 0 त्रिधा 0 एव 0 गुणभेदतः 0 ।

प्रोच्यते III/1 गुणसङ्ख्याने 7/1 यथावत् 0 शृणु II/1 तानि 2/3 अपि 0 ॥ १८.१९ ॥

 

 

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to प्रोच्यते 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to प्रोच्यते 1/1

·       च [ca] = and = अव्ययम्

·       कर्ता [kartā] = agent = कर्तृ (m.) + कर्मणि to प्रोच्यते 1/1

·       च [ca] = and = अव्ययम्

·       त्रिधा [tridhā] = three-fold = अव्ययम्

·       एव [eva] = only = अव्ययम्

·       गुणभेदतः [guṇa-bhedataḥ] = according to the differences in guṇa = अव्ययम्

o   गुणानां भेदः गुणभेदः (6T), तेन ।

·       प्रोच्यते [procyate] = is said = प्र + वच् (2P) to speak + लट्/कर्मणि/III/1

·       गुणसङ्ख्याने [guṇa-saṅkhyāne] = in the śāstra dealing with enumeration of guṇas = गुणसङ्ख्यान (n.) + अधिकरणे to प्रोच्यते 7/1

·       यथावत् [yathāvat] = just as it is = अव्ययम्

·       शृणु [śṛṇu] = listen = श्रु (1P) to hear + लोट्/कर्तरि/II/1

·       तानि [tāni] = those = तद् (pron. n.), pointing to the knowledge, action and agent + कर्मणि to शृणु 2/3

·       अपि [api] = also = अव्ययम्

 

 

Knowledge, action and agent are only three-fold according to the differences in guṇa, it is said in the śāstra dealing with the enumeration of the guṇas. Listen to those also just as it is (unfolded).

 

 

Sentence 1:

ज्ञानम् 1/1 कर्म 1/1 च 0 कर्ता 1/1 च 0 गुणभेदतः 0 त्रिधा 0 एव 0 गुणसङ्ख्याने 7/1 प्रोच्यते III/1।

Knowledge (ज्ञानम् 1/1), action (कर्म 1/1) and (च 0) agent (कर्ता 1/1) are only (एव 0) three-fold (त्रिधा 0) according to the differences in guṇa (गुणभेदतः 0), it is said (प्रोच्यते III/1) in the śāstra dealing with the enumeration of the guṇas (गुणसङ्ख्याने 7/1).

 

Sentence 2:

तानि 2/3 अपि 0 यथावत् 0 शृणु II/1॥

Listen (शृणु II/1) to those (तानि 2/3) also (अपि 0) just as it is (यथावत् 0) (unfolded).

 

 

अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आरभ्यते —

ज्ञानम् 1/1 कर्म 1/1 च 0, कर्म क्रिया, न कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता 1/1 च 0 निर्वर्तकः क्रियाणां त्रिधा 1/1 एव 0, अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः 0 सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते III/1 कथ्यते गुणसङ्ख्याने 7/1 कापिले शास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव । परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः । यथावत् 0 यथान्यायं यथाशास्त्रं शृणु II/1 तानि 2/3 अपि 0 ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १८.१९ ॥

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.