Saturday, April 11, 2015

2nd Chapter 24th Sloka

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥२.२४॥

 

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |

nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ||2.24||

 

अच्छेद्यः 1/1 अयम् 1/1 अदाह्यः 1/1 अयम् 1/1 अक्लेद्यः 1/1 अशोष्यः 1/1 एव 0 0

नित्यः 1/1 सर्वगतः 1/1 स्थाणुः 1/1 अचलः 1/1 अयम् 1/1 सनातनः 1/1॥२.२४॥

 

·       अच्छेद्यः [acchedyaḥ] = that which cannot be cut = अच्छेद्य (m.) + 1/1

o   छिद् (to cut) + ण्यत् (object which can be done)

= छेद्य

o   न छेद्यः इति अच्छेद्यः । नञ्तत्पुरुषसमासः

·       अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1

·       अदाह्यः [adāhyaḥ] = that which cannot be burned = अदाह्य (m.) + 1/1

o   दह् (to burn) + ण्यत् (object which can be done)

= दाह्य

o   दाह्यः इति अदाह्यः । नञ्तत्पुरुषसमासः

·       अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1

·       अक्लेद्यः [akledyaḥ] = that which cannot be wet = अक्लेद्य (m.) + 1/1

o   क्लिद् (to wet) + ण्यत् (object which can be done)

= क्लेद्य

o   क्लेद्यः इति अक्लेद्यः । नञ्तत्पुरुषसमासः

·       अशोष्यः [aśoṣyaḥ] = that which cannot be dried = अशोष्य (m.) + 1/1

o   शुष् (to dry) + ण्यत् (object which can be done)

= शोष्य

o   शोष्यः इति अशोष्यः । नञ्तत्पुरुषसमासः

·       एव [eva] = indeed = अव्ययम्

·       [ca] = and = अव्ययम्

·       नित्यः [nityaḥ] = changeless = नित्य (m.) + 1/1

·       सर्वगतः [sarvagataḥ] = all pervasive = सर्वगत (m.) + 1/1

·       स्थाणुः [sthāṇuḥ] = stable = सर्वगत (m.) + 1/1

·       अचलः [acalaḥ] = immovable = अचल (m.) + 1/1

·       अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1

·       सनातनः [sanātanaḥ] = eternal = सनातन (m.) + 1/1

 

This (self) cannot be cut, burnt, drowned, or dried. It is changeless, all-pervading, stable, immovable, and eternal.

 

यतः 0 एवम् 0 तस्मात् 5/1

अच्छेद्यः 1/1 अयम् 1/1 अदाह्यः 1/1 अयम् 1/1 अक्लेद्यः 1/1 अशोष्यः 1/1 एव 0 0

नित्यः 1/1 सर्वगतः 1/1 स्थाणुः 1/1 अचलः 1/1 अयम् 1/1 सनातनः 1/1॥२.२४॥

यस्मात् 5/1 अन्योन्य-नाश-हेतु-भूतानि 1/3 एनम् 2/1 आत्मानम् 2/1 नाशयितुम् 0 0 उत्सहन्ते III/3 असि-आदीनि 1/3 तस्मात् 5/1 नित्यः 1/1 नित्यत्वात् 5/1 सर्वगतः 1/1 । सर्वगतत्वात् 5/1 स्थाणुः 1/1 इव 0, स्थिरः 1/1 इति 0 एतत् 1/1 स्थिरत्वात् 5/1 अचलः 1/1 अयम् 1/1 आत्मा 1/1 अतः 0 सनातनः 1/1 चिरन्तनः 1/1, 0 कारणात् 5/1 कुतश्चित् 0 निष्पन्नः 1/1, अभिनवः 1/1 इत्यर्थः 1/1

0 एतेषाम् 6/3 श्लोकानाम् 6/3 पौनरुक्त्यम् 1/1 चोदनीयम् 1/1, यतः 0 एकेन 3/1 एव 0 श्लोकेन 3/1 आत्मनः 6/1 नित्यत्वम् 1/1 अविक्रियत्वम् 1/1 0 उक्तम् 1/1 “न 0 जायते III/1 म्रियते III/1 वा 0 इत्यादिना 3/1 तत्र 0 यत् 1/1 एव 0 आत्म-विषयम् 1/1 किञ्चित् 0 उच्यते III/1, तत् 1/1 तस्मात् 5/1 श्लोकार्थात् 5/1 0 अतिरिच्यते III/1; किञ्चित् 0 शब्दतः 0 पुनरुक्तम् 1/1, किञ्चित् 0 अर्थतः 0 इति 0 दुर्बोधत्वात् 5/1 आत्मवस्तुनः 6/1 पुनः 0 पुनः 0 प्रसङ्गम् 2/1 आपाद्य 0 शब्द-अन्तरेण 3/1 तत् 2/1 एव 0 वस्तु 2/1 निरूपयति III/1 भगवान् 1/1 वासुदेवः 1/1 कथम् 0 नु 0 नाम 0 संसारिणाम् 6/3 अव्यक्तम् 1/1 तत्त्वम् 1/1 बुद्धि-गोचरताम् 2/1 आपन्नम् 1/1 सत् 1/1 संसार-निवृत्तये 4/1 स्यात् III/1 इति 0


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.