यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥२.४२॥
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ||2.42||
याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 अविपश्चितः 1/3 ।
वेदवादरताः 1/3 पार्थ S/1 न 0 अन्यत् 1/1 अस्ति III/1 इति 0 वादिनः 1/3 ॥२.४२॥
· याम् [yām] = those which are = या (f.) + adj. to वाचम् 2/1
· इमाम् [imām] = these = इदम् (f.) + adj. to वाचम् 2/1
· पुष्पिताम् [puṣpitām] = flowery = पुष्पिता (f.) + adj. to वाचम् 2/1
· वाचम् [vācam] = words = वाच् (f.) + कर्मणि to प्रवदन्ति 2/1
· प्रवदन्ति [pravadanti] = speak = प्र + वद् (1P) to speak + लट्/कर्तरि/III/3
· अविपश्चितः [avipaścitaḥ] = those who do not see clearly = अविपश्चित (m.) + 1/3
o न विपश्चित् इति अविपश्चित् । नञ्तत्पुरुषसमासः
o विपश्चित् - पण्डित इति अमरे ।
o विशेषं पश्यति विप्रकृष्टं चेतति चिनोति चिन्तयति वा पृषोदरादित्वात्साधुः ।
· वेदवादरताः [vedavādaratāḥ] = those who remain engrossed in कर्मकाण्ड = वेदवादरत (m.) + 1/3
o वेदानां वादाः वाक्यानि वेदवादाः । षष्ठीतत्पुरुषः
o वेदवादेषु वेदवाक्येषु रताः (रम् + कर्तरि क्त) वेदवादरताः । सप्तमीतत्पुरुषसमासः
· पार्थ [pārtha] = O! Son of Pṛthā = पार्थ (m.) + सम्बोधने 1/1
· न [na] = not = अव्ययम्
· अन्यत् [anyat] = other thing = अन्य (pron. n.) + 1/1
· अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1
· इति [iti] = thus = अव्ययम्
· वादिनः [vādinaḥ] = those who argue = वादिन् (m.) + 1/3
o (वद् + घञ्) + इनिँ = वादिन्
o वद् + णिनिँ = वादिन् by 3.2.81 बहुलमभीक्ष्णे । ~ णिनिँ
O! Son of Pṛthā, the non-discriminating people, who remain engrossed in karma enjoined by the Veda, arguing that there is nothing other than this, utter these flowery words.
Sentence 1:
अविपश्चितः 1/3 वेदवादरताः 1/3 अन्यत् 1/1 न 0 अस्ति III/1 इति 0 वादिनः 1/3 याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 पार्थ S/1 ॥२.४२॥
O! Son of Pṛthā (पार्थ S/1), the non-discriminating people (अविपश्चितः 1/3), who remain engrossed in karma enjoined by the Veda (वेदवादरताः 1/3), arguing (वादिनः 1/3) that there is nothing (न 0 अस्ति III/1) other than this (अन्यत् 1/1), utter (इति 0 प्रवदन्ति III/3) these (याम् 2/1 इमाम् 2/1) flowery (पुष्पिताम् 2/1) words (वाचम् 2/1).
याम् 2/1 इमाम् 2/1 वक्ष्यमाणाम् 2/1 पुष्पिताम् 2/1 पुष्पितः 1/1 इव 0 वृक्षः 1/1 शोभमानाम् 2/1 श्रूयमाण-रमणीयाम् 2/1 वाचम् 2/1 वाक्यलक्षणाम् 2/1 प्रवदन्ति III/3 । के 1/3 ? अविपश्चितः 1/3 अमेधसः 1/3 अविवेकिनः 1/3 इत्यर्थः 1/1 । वेदवाद-रताः 1/3 बह्वर्थ-वाद-फल-साधन-प्रकाशकेषु 7/3 वेद-वाक्येषु 7/3 रताः 1/3 हे 0 पार्थ S/1, न 0 अन्यत् 1/1 स्वर्ग-पश्वादि-फल-साधनेभ्यः 5/3 कर्मभ्यः 5/3 अस्ति III/1 इति 0 एवम् 0 वादिनः 1/3 वदन-शीलाः 1/3 ॥
वेदवादेषु वेदवाक्येषु रतः (रम् + कर्तरि क्त) वेदवादरतः । सप्तमीतत्पुरुषसमासः
ReplyDeleteI have read that only the terms in a specific gana can be used in saptami tatpurusa samaasa. There is only one sutra for this samaasa. It is mostly like comparison. A person who is great in a group. Is the example given here is considered as saptami tatpuru only? Any reason to be stated to justify this?
Thank you for your message.
ReplyDeleteThe विग्रहवाक्यम् was given in शाङ्करभाष्यम्.
Yes, I know that as per Panini, there is only limited scope for सप्तमीतत्पुरुष. At the same time, in the reality, there are so many शिष्टप्रयोगs which do not conform Panini's regulations.
And there is always a way out.
You can do योगविभाग. You can read the sutra 2.1.40 सप्तमी शौण्डैः। as only "सप्तमी", then use the अनुवृत्ति "सुपा". In this manner you can make any type of तत्पुरुषसमासः.
योगविभागः [yogavibhāgaḥ]
ReplyDeleteDivision of a rule (namely, sutra) which has been traditionally given as one single rule (sutra), into two for explaining the formation of certain words, which is otherwise are likely stamped as ungrammatical formations.
(A Dictionary of Sanskrit Grammar)