Monday, December 1, 2025

18th Chapter 16th Sloka

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८.१६॥

 

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |

paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || 18.16||

 

तत्र 0 एवम् 0 सति 7/1 कर्तारम् 2/1 आत्मानम् 2/1 केवलम् 2/1 तु 0 यः 1/1

पश्यति III/1 अकृतबुद्धित्वात् 5/1 सः 1/1 पश्यति III/1 0 दुर्मतिः 1/1 १८.१६॥

 

 

·       तत्र [tatra] = when this is so = अव्ययम्

·       एवम् [evam] = thus = अव्ययम्

·       सति [sati] = when it is so = सत् (n.) + भावलक्षणे (सतिसप्तपी) 7/1

o    अस् (2P) to be + शतृ

·       कर्तारम् [kartāram] = the agent = कर्तृ (m.) + O.C. to आत्मानम् 2/1

·       आत्मानम् [ātmānam] = the self = आत्मन् (m.) + कर्मणि to पश्यति 2/1

·       केवलम् [kevalam] = pure/alone = केवल (n.) + adj. to आत्मानम् 2/1

·       तु [tu] = but/on the other hand = अव्ययम्

·       यः [yaḥ] = the one who = यद् (pron.) + कर्तरि to पश्यति 1/1

·       पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1

·       अकृतबुद्धित्वात् [akṛtabuddhitvāt] = because of an immature mind = अकृतबुद्धित्व (n.) + हेतौ to पश्यति 5/1

o   अकृता असंस्कृता बुद्धिः यस्य सः अकृतबुद्धिः। तस्य भावः अकृतबुद्धित्वम्, तस्मात् ।

·       सः [saḥ] = he = तद् (pron.) + कर्तरि to पश्यति (second) 1/1

·       पश्यति [paśyati] = sees (truly) = दृश् (1P) + लट्/कर्तरि/III/1

·       न [na] = not = अव्ययम्

·       दुर्मतिः [durmatiḥ] = the one whose thinking is distorted = दुर्मति (m.) + कर्तरि to पश्यति (second) 1/1

 

 

When this is so, the one who sees, on the other hand, the self, which is ‘pure,’ as the agent, because of an immature mind, that person whose thinking is distorted does not see (the truth).

 

Sentence 1:

तत्र 0 एवम् 0 सति 7/1, यः 1/1 तु 0 अकृतबुद्धित्वात् 5/1 केवलम् 2/1 आत्मानम् 2/1 कर्तारम् 2/1 पश्यति III/1 सः 1/1 दुर्मतिः 1/1 0 पश्यति III/1

When this is so (तत्र 0 एवम् 0 सति 7/1), the one (यः 1/1) who sees (पश्यति III/1), on the other hand (तु 0), the self (आत्मानम् 2/1), which is “pure (केवलम् 2/1),” as the agent (कर्तारम् 2/1), because of an immature mind (अकृतबुद्धित्वात् 5/1), that person (सः 1/1) whose thinking is distorted (दुर्मतिः 1/1) does not see ( 0 पश्यति III/1) (the truth).

 

 

तत्र 0 इति प्रकृतेन सम्बध्यते । एवम् 0 सति 7/1 एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि । तत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते । तत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः अहमेव कर्ताइति कर्तारम् 2/1 आत्मानम् 2/1 केवलम् 2/1 शुद्धं तु 0 यः 1/1 पश्यति III/1 अविद्वान् ; कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् 5/1 असंस्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः अकृतबुद्धित्वात् 0 सः 1/1 पश्यति III/1 आत्मनः तत्त्वं कर्मणो वा इत्यर्थः । अतः दुर्मतिः 1/1, कुत्सिता विपरीता दुष्टा अजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः । सः पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम् , यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥ १८.१६ ॥

 

 

 

18th Chapter 15th Sloka

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८.१५ ॥

 

śarīravāṅmanobhiryatkarma prārabhate naraḥ |

nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 18.15 ||

 

शरीर-वाङ्-मनोभिः 3/3 यत् 2/1 कर्म 2/1 प्रारभते III/1 नरः 1/1

न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 पञ्च 1/3 एते 1/3 तस्य 6/1 हेतवः 1/3 १८.१५ ॥

 

 

·       शरीर-वाङ्-मनोभिः [śarīra-vāṅ-manobhiḥ] = with body, speech, and mind = शरीरवाङ्मनस् (n.) + करणे to प्रारभते 3/3

·       यत् [yat] = that which = यद् (pron.) + adj. to कर्म 2/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to प्रारभते 2/1

·       प्रारभते [prārabhate] = undertakes = प्र + आङ् + रभ् (1A) to begin, undertake + लट्/कर्तरि/III/1

·       नरः [naraḥ] = man = नर (m.) + कर्तरि to प्रारभते 1/1

·       न्याय्यम् [nyāyyam] = proper = न्याय्य (n.) + adj. to कर्म 2/1

·       वा [vā] = or = अव्ययम्

·       विपरीतम् [viparītam] = opposite, improper = विपरीत (n.) + adj. to कर्म 2/1

·       वा [vā] = or = अव्ययम्

·       पञ्च [pañca] = five = पञ्चन् (m.) + adj. to एते 1/3

·       एते [ete] = these = एतद् (pron.) + कर्तरि to (भवन्ति) 1/3

·       तस्य [tasya] = of that (action) = तद् (pron.) + सम्बन्धे to हेतवः 6/1

·       हेतवः [hetavaḥ] = causes = हेतु (m.) + S.C. to एते 1/3

 

 

That karma, whether proper or the opposite (improper), which a man undertakes with body, speech or mind, has these five causes.

 

 

Sentence 1:

नरः 1/1 न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 यत् 2/1 कर्म 2/1 शरीर-वाङ्-मनोभिः 3/3 प्रारभते III/1, तस्य 6/1 एते 1/3 पञ्च 1/3 हेतवः 1/3

That karma (कर्म 2/1), whether proper (न्याय्यम् 2/1 वा 0) or the opposite (विपरीतम् 2/1 वा 0) (improper), which (यत् 2/1) a man (नरः 1/1) undertakes (प्रारभते III/1) with body, speech or mind (शरीर-वाङ्-मनोभिः 3/3), has (तस्य 6/1) these (एते 1/3) five (पञ्च 1/3) causes (हेतवः 1/3).

 

 

शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम् , विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव ग्रहणेन गृहीतम् , पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥

ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते शरीरवाङ्मनोभिः यत् कर्म प्रारभतेइति ?

नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति ।

फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥

 

 

 

18th Chapter 14th Sloka

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८.१४ ॥

 

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |

vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam || 18.14 ||

 

अधिष्ठानम् 1/1 तथा 0 कर्ता 1/1 करणम् 1/1 0 पृथग्विधम् 1/1

विविधाः 1/3 0 पृथक् 0 चेष्टाः 1/3 दैवम् 1/1 0 एव 0 अत्र 0 पञ्चमम् 1/1 १८.१४ ॥

 

 

·       अधिष्ठानम् [adhiṣṭhānam] = physical body (seat of action) = अधिष्ठान (n.) + प्रातिपदिकार्थे 1/1

·       तथा [tathā] = and also = अव्ययम्

·       कर्ता [kartā] = the agent = कर्तृ (m.) + प्रातिपदिकार्थे 1/1

·       करणम् [karaṇam] = the means (organs, instruments) = करण (n.) + प्रातिपदिकार्थे 1/1

·       च [ca] = and = अव्ययम्

·       पृथग्विधम् [pṛthagvidham] = manifold, of different kinds = पृथग्विध (n.) + adj. to करणम् 1/1

·       विविधाः [vividhāḥ] = diverse = विविध (m.) + adj. to चेष्टाः 1/3

·       च [ca] = and = अव्ययम्

·       पृथक् [pṛthak] = separately, distinctly = अव्ययम्

·       चेष्टाः [ceṣṭāḥ] = activities (movements, functions of prāṇas) = चेष्टा (f.) + प्रातिपदिकार्थे 1/3

·       दैवम् [daivam] = the divine factor / presiding deity = दैव (n.) + प्रातिपदिकार्थे 1/1

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       अत्र [atra] = here = अव्ययम्

·       पञ्चमम् [pañcamam] = the fifth = पञ्चम (n.) + adj. to दैवम् 1/1

 

 

(They are) the physical body, the agent, the manifold means (of action), the distinct and diverse activities (of the prāṇas), and indeed, daiva (the presiding deities) is the fifth here.

 

 

Sentence 1:

अधिष्ठानम् 1/1 तथा 0 कर्ता 1/1 पृथग्विधम् 1/1 करणम् 1/1 0 विविधाः 1/3 पृथक् 0 चेष्टाः 1/3 0 दैवम् 1/1 0 एव 0 अत्र 0 पञ्चमम् 1/1

 (They are) the physical body (अधिष्ठानम् 1/1), the agent (कर्ता 1/1), the manifold (पृथग्विधम् 1/1) means (करणम् 1/1) (of action), the distinct (पृथक् 0) and (च 0) diverse (विविधाः 1/3) activities (चेष्टाः 1/3) (of the prāṇas), and (च 0) indeed (एव 0), daiva (दैवम् 1/1) (the presiding deities) is the fifth (पञ्चमम् 1/1) here (अत्र 0).

 

 

कानि तानीति, उच्यते

अधिष्ठानम् 1/1 इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्तेराश्रयः अधिष्ठानं शरीरम् , तथा 0 कर्ता 1/1 उपाधिलक्षणः भोक्ता, करणम् 1/1 0 श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधम् 1/1 नानाप्रकारं तत् द्वादशसङ्ख्यं विविधाः 1/3 0 पृथक् 0 चेष्टाः 1/3 वायवीयाः प्राणापानाद्याः दैवम् 1/1 0 एव 0 दैवमेव च अत्र 0 एतेषु चतुर्षु पञ्चमम् 1/1 पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥ १८.१४॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.