Thursday, July 14, 2016

6th Chapter 20th Sloka

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६.२०॥

yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6.20||


यत्र 0 उपरमते III/1 चित्तम् 1/1 निरुद्धम् 1/1 योगसेवया 3/1
यत्र 0 0 एव 0 आत्मना 3/1 आत्मानम् 2/1 पश्यन् 1/1 आत्मनि 7/1 तुष्यति III/1 ॥६.२०॥

·         यत्र [yatra] = when = अव्ययम्
·         उपरमते [uparamate] = abides = उप + रम् + लट्/कर्तरि/III/1
·         चित्तम् [cittam] = the mind = चोत्त (n.) + कर्तरि to उपरमते 1/1
·         निरुद्धम् [niruddham] = mastered = निरुद्ध + adj. to चित्तम् 1/1
·         योगसेवया [yogasevayā] = by the practice of meditaion = योगसेवा + हेतौ 3/1
·         यत्र [yatra] = when = अव्ययम्
·         [ca] = and = अव्ययम्
·         एव [eva] = alone = अव्ययम्
·         आत्मना [ātmanā] = by oneself = आत्मन् (m.) + करणे to पश्यन् 3/1
·         आत्मानम् [ātmānam] = oneself = आत्मन् (m.) + कर्मणि to पश्यन् 2/1
·         पश्यन् [paśyan] = seeing = adj. to (आत्मा, कर्तरि) 1/1
·         आत्मनि [ātmani] = in oneself = विषये 7/1
·         तुष्यति [tuṣyati] = rejoices = तुष् + लट्/कर्तरि/III/1

When the mind, mastered by the practce of meditaion, abides (in ātmā) and when, seeing oneself by oneself alone, one rejoices in oneself...

Sentence 1:
When (यत्र 0) the mind (चित्तम् 1/1), mastered (निरुद्धम् 1/1) by the practce of meditaion (योगसेवया 3/1), abides (उपरमते III/1) (in ātmā) and ( 0) when (यत्र 0), seeing (पश्यन् 1/1) oneself (आत्मानम् 2/1) by oneself (आत्मना 3/1) alone (एव 0), one rejoices (तुष्यति III/1) in oneself (आत्मनि 7/1)...


एवम् 0 योग-अभ्यास-बलात् 5/1 एकाग्रीभूतम् 1/1 निवात-प्रदीप-कल्पम् 1/1 सत् 1/1
यत्र 0 यस्मिन् 7/1 काले 7/1 उपरमते III/1 चित्तम् 1/1 उपरतिम् 2/1 गच्छति III/1 निरुद्धम् 1/1 सर्वतः 0 निवारित-प्रचारम् 1/1 योगसेवया 3/1 योग-अनुष्ठानेन 3/1, यत्र 0 0 एव 0 यस्मिन् 7/1 0 काले 7/1 आत्मना 3/1 समाधि-परिशुद्धेन 3/1 अन्तःकरणेन 3/1 आत्मानम् 2/1 परम् 2/1 चैतन्यम् 2/1 ज्योतिःस्वरूपम् 2/1 पश्यन् 1/1 उपलभमानः 1/1 स्वे 7/1 एव 0 आत्मनि 7/1 तुष्यति III/1 तुष्टिम् 2/1 भजते III/1



किञ्च --
।।6.21।। --
सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अनन्तमित्यर्थः, यत् तत् बुद्धिग्राह्यं
बुद्ध्यैव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम्
अविषयजनितमित्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र यस्मिन् काले, एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् प्रच्यवते इत्यर्थः।।

किञ्च --
।।6.22।। --
यं लब्ध्वाम् यम् आत्मलाभं लब्ध्वा प्राप्य अपरम् अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति मन्यते चिन्तयति। किञ्च, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि विचाल्यते।।

'यत्रोपरमते (गीता 620)' इत्याद्यारभ्य यावद्भिः विशेषणैः विशिष्ट आत्मावस्थाविशेषः योग उक्तः --
।।6.23।। --
तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः, तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन विद्यात् विजानीयादित्यर्थः। योगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाधनत्वविधानार्थम्। यथोक्तफलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा निर्विण्णम् अनिर्विण्णम्। किं तत्? चेतः तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः।।

किञ्च --
।।6.24।। --
संकल्पप्रभवान् संकल्पः प्रभवः येषां कामानां ते संकल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य
सर्वान् अशेषतः निर्लेपेन। किञ्च, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य
नियमनं कृत्वा समन्ततः समन्तात्।।

।।6.25।। --
शनैः शनैः सहसा उपरमेत् उपरतिं कुर्यात्। कया? बुद्ध्या। किंविशिष्टया? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः। आत्मसंस्थम् आत्मनि संस्थितम् 'आत्मैव सर्वं ततोऽन्यत् किञ्चिदस्ति' इत्येवमात्मसंस्थं मनः कृत्वा किञ्चिदपि चिन्तयेत्। एष योगस्य परमो विधिः।।

तत्र वमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी --
।।6.26।। -- -
यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थं चलम्, अत एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात् नियम्य तत्तन्निमित्तं
याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया एतत् मनः आत्मन्येव वशं नयेत्
आत्मवश्यतामापादयेत्। एवं योगाभ्यासबलात् योगिनः आत्मन्येव प्रशाम्यति मनः।।

।।6.27।। --
प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं हि नं योगिनं सुखम्
उत्तमं निरतिशयम् उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः, ब्रह्मभूतं
जीवन्मुक्तम्' ब्रह्मैव सर्वम्' इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम्।।

।।6.28।। --
युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति।।

इदानीं योगस्य यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकारणं तत् प्रदर्श्यते -- -
।।6.29।। --
सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभूतानि आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि
सर्वभूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य सर्वत्र समदर्शनः।।

एतस्य आत्मैकत्वदर्शनस्य फलम् उच्यते --
।।6.30।। --
यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एएएवं आत्मैकत्वदर्शिनः अहम् ईश्वरो प्रणश्यामि परोक्षतां
गमिष्यामि। मे प्रणश्यति विद्वान् मम वासुदेवस्य प्रणश्यति परोक्षो भवति,
तस्य मम एकात्मकत्वात्; स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच्च अहमेव
सर्वात्मैकत्वदर्शी।।

इत्येतत् पूर्वश्लोकार्थं सम्यग्दर्शनमनूद्य तत्फलं मोक्षः अभिधीयते -- -
।।6.31।। -- -
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव
सः, मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः।।

किञ्च अन्यत् --
।।6.32।। --
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन
आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुन, किं समं पश्यति इत्युच्यते --
यथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलम्। वाशब्दः चार्थे। यदि वा यच्च दुःखं
मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थः। यः एवमहिंसकः सम्यग्दर्शननिष्ठः योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये।।

एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसंपाद्यतामालक्ष्य शुश्रूषुः ध्रुवं तत्प्राप्त्युपायम् -
अर्जुन उवाच --
।।6.33।। --
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन तस्य योगस्य अहं पश्यामि
नोपलभे, चञ्चलत्वात् मनसः। किम्? स्थिराम् अचलां स्थितिम्।।

प्रसिद्धमेतत् --
।।6.34।। --
चञ्चलं हि मनः कृष्ण इति कृष्यतेः विलेखनार्थस्य रूपम्। भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण। हि यस्मात् मनः चञ्चलं केवलमत्यर्थं चञ्चलम्, प्रमाथि च प्रमथनशीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि विक्षिपत् सत् परवशीकरोति। किञ्चबलवत् प्रबलम्, केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात्। किञ्च -- दृढं तन्तुनागवत् अच्छेद्यम्। तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः।।

एवम् एतत् यथा ब्रवीषि --
श्रीभगवानुवाच --
।।6.35।। --
असंशयं नास्ति संशयः मनो दुर्निग्रहं चलम् इत्यत्र हे महाबाहो। किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य। वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु
दोषदर्शनाभ्यासात् वैतृष्ण्यम्। तेन वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य। एवं तत् मनः
गृह्यते निगृह्यते निरुध्यते इत्यर्थः।।

यः पुनः असंयतात्मा, तेन --
।।6.36।। --
असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन
असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः। यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु
यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात्।।

तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि,
योगसिद्धिफलं मोक्षसाधनं सम्यग्दर्शनं प्राप्तमिति, योगी योगमार्गात् मरणकाले
चलितचित्तः इति तस्य नाशमाशङ्क्य अर्जुन उवाच --
।।6.37।। --
अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या उपेतः योगात् अन्तकाले चलितं मानसं मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति।।

।।6.38।। --
कच्चित् किं उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किं
वा नश्यति अप्रतिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे।।

।।6.39।। --
एतत् मे मम संशयं कृष्ण छेत्तुम् अपनेतुम् अर्हसि अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य हि यस्मात् उपपद्यते संभवति। अतः त्वमेव
छेत्तुमर्हसि इत्यर्थः।।

श्रीभगवानुवाच --
।।6.40।। --
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति। नाशो नाम
पूर्वस्मात् हीनजन्मप्राप्तिः योगभ्रष्टस्य नास्ति। हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते। पितैव पुत्र इति पुत्रोऽपि तात उच्यते। शिष्योऽपि पुत्र उच्यते। यतो गच्छति।।

किं तु अस्य भवति? --
।।6.41।। --
योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनां लोकान्, तत्र
उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान्, तद्भोगक्षये शुचीनां यथोक्तकारिणां
श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते।।

।।6.42।। --
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम्। एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य लोके
जन्म यत् ईदृशं यथोक्तविशेषणे कुले।।

यस्मात् --
।।6.43।। --
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम्। यतते प्रयत्नं करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन।।

कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते --
।।6.44।। --
यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्मात् अवशोऽपि सः योगभ्रष्टः; कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तरमधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः अभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यमारभते, दीर्घकालस्थस्यापि विनाशः तस्य अस्ति इत्यर्थः। अतः जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते
अतिक्रामति अपाकरिष्यति; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात्।।

कुतश्च योगित्वं श्रेयः इति --
।।6.45।। --
प्रयत्नात् यतमानः, अधिकं यतमान इत्यर्थः। तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अनेकजन्मसंसिद्धः अनेकेषु जन्मसु किञ्चित्किञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम्।।

यस्मादेवं तस्मात् --
।।6.46।। --
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम्, तद्वद्भ्योऽपि मतः ज्ञातः
अधिकः श्रेष्ठः इति। कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात्
तस्मात् योगी भव अर्जुन।।


।।6.47।। --
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादि
शष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
षष्ठोऽध्यायः।।



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.