तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६.३ ॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata || 16.3 ||
तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 न 0 अतिमानिता 1/1 ।
भवन्ति III/1 सम्पदम् 2/1 दैवीम् 2/1 अभिजातस्य 6/1 भारत S/1 ॥ १६.३ ॥
· तेजः [tejaḥ] = brilliance = तेजस् (n.) + प्रातिपदिकार्थमात्रे 1/1
· क्षमा [kṣamā] = composure = क्षमा (f.) + प्रातिपदिकार्थमात्रे 1/1
· धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1
· शौचम् [śaucam] = cleanliness = शौच (n.) + प्रातिपदिकार्थमात्रे 1/1
· अद्रोहः [adrohaḥ] = no thought of hurting = अद्रोह (m.) + प्रातिपदिकार्थमात्रे 1/1
o द्रोहः = जिघांसा intention to hurt
· न [na] = no = अव्ययम्
· अतिमानिता [atimānitā] = exaggerated self-opinion = अतिमानिता (f.) + प्रातिपदिकार्थमात्रे 1/1
o अतिमानिनः भावः अतिमानिता ।
· भवन्ति [bhavanti] = there are = भू (1P) to be + लट्/कर्तरि/III/1
· सम्पदम् [sampadam] = wealth = सम्पद् (f.) + 2/1
· दैवीम् [daivīm] = that which belongs to devas = दैवी (f.) + 2/1
· अभिजातस्य [abhijātasya] = for the one who is born to = अभिजात (m.) + सम्बन्धे to [अभयादीनि] 6/1
· भारत [bhārata] = O Bhārata! = भारत (m.) + सम्बोधने 1/1
…brilliance, composure, fortitude, cleanliness, no thought of hurting, and no exaggerated self-opinion – all these are there for the one who is born to the wealth of devas.
Sentence 1:
तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 न 0 अतिमानिता 1/1 (इति एतानि) दैवीम् 2/1 सम्पदम् 2/1 अभिजातस्य 6/1 भवन्ति III/1 भारत S/1 ॥ १६.३ ॥
…brilliance (तेजः 1/1), composure (क्षमा 1/1), fortitude (धृतिः 1/1), cleanliness (शौचम् 1/1), no thought of hurting (अद्रोहः 1/1), and no (न 0) exaggerated self-opinion (अतिमानिता 1/1) – all these are there (भवन्ति III/1) for the one who is born to (अभिजातस्य 6/1) the wealth (सम्पदम् 2/1) of devas (दैवीम् 2/1).
किञ्च —
तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥