अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥
annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3.14||
अन्नात् 5/1 भवन्ति III/3 भूतानि 1/3 पर्जन्यात् 5/1 अन्नसम्भवः 1/1 ।
यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥
· अन्नात् [ātmakāraṇāt] = from food = अन्न (n.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
· भवन्ति [bhavanti] = are born = भू to be+ लट्/कर्तरि/III/3
· भूतानि [bhūtāni] = living beings = भूत (n.) + 1/3
· पर्जन्यात् [parjanyāt] = from rain = र्जन्य (m.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
· अन्नसम्भवः [annasambhavaḥ] = coming into being of food = अन्नसम्भव (m.) + 1/1
o अन्नस्य सम्भवः अन्नसम्भवः (6T)
· यज्ञात् [yajñāt] = from yajña = यज्ञ (m.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
· भवति [bhavati] = is born = भू to be+ लट्/कर्तरि/III/1
· पर्जन्यः [parjanyaḥ] = rain = पर्जन्य (m.) + 1/1
· यज्ञः [yajñaḥ] = yajña = यज्ञ (m.) + 1/1
· कर्मसमुद्भवः [karmasamudbhavaḥ] = born of action = कर्मसमुद्भव (m.) + 1/1
o कर्म समुद्भवः यस्य सः (116B) ।
o सम् + उद् + भू सत्तायाम् to be born + अप् (भावे)
Living beings are born of food; food is born of rain; rain is born of yajña (puṇya); and yajña (puṇya) is born of action.
Sentence 1:
अन्नात् 5/1 भूतानि 1/3 भवन्ति III/3
Living beings (भूतानि 1/3) are born (भवन्ति III/3) of food (अन्नात् 5/1).
Sentence 2:
पर्जन्यात् 5/1 अन्नसम्भवः 1/1।
Food is born (अन्नसम्भवः 1/1) of rain (पर्जन्यात् 5/1).
Sentence 3:
यज्ञात् 5/1 पर्जन्यः 1/1 भवति III/1
Rain (पर्जन्यः 1/1) is born (भवति III/1) of yajña (यज्ञात् 5/1) (puṇya).
Sentence 4:
यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥
Yajña (यज्ञः 1/1) (puṇya) is born of action (कर्मसमुद्भवः 1/1).
इतः 0 (अस्मात् H5/1) च 0 अधिकृतेन 3/1 (पुरुषेण 3/1) कर्म 1/1 कर्तव्यम् 1/1 । जगत्-चक्र-प्रवृत्ति-हेतुः 1/1 हि 0 कर्म 1/1 । कथम् 0 इति 0 उच्यते III/1 –
अन्नात् 5/1 भवन्ति III/3 भूतानि 1/3 पर्जन्यात् 5/1 अन्नसम्भवः 1/1 ।
यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥
अन्नात् 5/1 भुक्तात् 5/1 लोहित-रेतः-परिणतात् 5/1 प्रत्यक्षम् 0 भवन्ति III/3 जायन्ते III/3 भूतानि 1/3। पर्जन्यात् 5/1 वृष्टेः 5/1 अन्नस्य 6/1 संभवः 1/1 अन्नसंभवः 1/1। यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1, “अग्नौ 7/1 प्रास्ता 1/1 आहुतिः 1/1 सम्यक् 0 आदित्यम् 2/1 उपतिष्ठते III/1। आदित्यात् 5/1 जायते III/1 वृष्टिः 5/1, वृष्टेः 5/1 अन्नम् 1/1, ततः 0 प्रजाः 1/3 (मनु० 3.76)” इति 0 स्मृतेः 5/1। यज्ञः 1/1 अपूर्वम् 1/1। सः 1/1 च 0 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ऋत्विक्-यजमानयोः 6/2 च 0 व्यापारः 1/1 कर्म 1/1, तत् 1/1 समुद्भवः 1/1 यस्य 6/1 यज्ञस्य 6/1 अपूर्वस्य 6/1 सः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 (116B)॥
१. पर्जन्यात् [parjanyāt] = from rain = र्जन्य (m.) + अपादाने 5/1
ReplyDeleteपर्जन्यात् [parjanyāt] = from rain = पर्जन्य (m.) + अपादाने 5/1
२. यज्ञात् [yajñāt] = from yajña = यज्ञ (m.) + अपादाने 5/1 Should this be hetu here as Rain is due to yajna and does not come from Yajna?
Thank you, Nivedita Ji.
ReplyDeleteThese अपादान can be taken as 1.4.30 जनिकर्तुः प्रकृतिः । ~ अपादानम् कारके, as they are उपादानकारण, in a way.
As you suggested, हेतु also fits well.
Thank you again. I really appreciate your interest in this.
Om,