युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||
युधामन्युः 1/1 च 0 विक्रान्तः 1/1 उत्तमौजाः 1/1 च 0 वीर्यवान् 1/1 ।
सौभद्रः 1/1 द्रौपदेयाः 1/3 च 0 सर्वे 1/3 एव 0 महारथाः 1/3 ॥१-६॥
· युधामन्युः [yudhāmanyuḥ] = Yudhāmanyu = युधामन्यु (m.) + 1/1
· विक्रान्तः [vikrāntaḥ] = powerful = विक्रान्त (m.) + 1/1
· उत्तमौजाः [uttamaujāḥ] = Uttamaujas = उत्तमौजस् (m.) + 1/1
· च [ca] = and = अव्ययम्
· वीर्यवान् [vīryavān] = Valiant = वीर्यवत् (m.) + 1/1
o वीर्यम् (valor) अस्य/अस्मिन् अस्ति इति वीर्यवान् । मतुँप्
· सौभद्रः [saubhadraḥ] = Abhimanyu = सौभद्र (m.) + 1/1
o सुभद्रायाः (of Subhadrā, wife of Arjuna) अपत्यं (son) सौभद्रः
· द्रौपदेयाः [draupadeyāḥ] = the sons of Draupadī = द्रौपदेय (m.) + 1/3
o द्रौपद्याः (of Draupadī) अपत्यानि (sons) द्रौपदेयाः = द्रौपदी + ढक् (स्त्रीभ्यो ढक्।)
· च [ca] = and = अव्ययम्
· सर्वे [sarve] = all (these) = सर्व (pron. m.) + 1/3
· एव [eva] = indeed = अव्ययम्
· महारथाः [mahārathāḥ] = men of great valour = महारथ (m.) + 1/3
॥ १-६॥
The powerful (विक्रान्तः 1/1) Yudhāmanyu (युधामन्युः 1/1 च 0), Uttamaujas (उत्तमौजाः 1/1 च 0), a man of great strength (वीर्यवान् 1/1), (Abhimanyu,) the son of Subhadrā (सौभद्रः 1/1) and the sons of Draupadī (द्रौपदेयाः 1/3 च 0) – all men of great valour (सर्वे 1/3 एव 0 महारथाः 1/3).