निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६॥
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmān hatvaitānātatāyinaḥ||36||
निहत्य 0 धार्तराष्ट्रान् 2/3 नः 6/3 का 1/1 प्रीतिः 1/1 स्यात् III/1 जनार्दन S/1 ।
पापम् 1/1 एव 0 आश्रयेत् III/1 अस्मान् 2/3 हत्वा 0 एतान् 2/3 आततायिनः 2/3॥३६॥
·
निहत्य [nihatya] = having killed = अव्ययम्
o
नि + हन् to kill, destroy + ल्यप्
नि + ह + य 6.4.37
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो
झलि क्ङिति ।
नि + हत् + य 6.1.71 ह्रस्वस्य पिति कृति तुक् ।
·
धार्तराष्ट्रान् [dhārtarāṣṭrān] = sons of Dhṛtarāṣṭra = धार्तराष्ट्र (m.) + कर्मणि to निहत्य 2/3
·
नः [naḥ] = for us = अस्मद् (pron. m.) + सम्बन्धे to प्रीतिः 6/1
·
का [kā] = what = किम् (f.) + कर्तरि to स्यात् 1/1
·
प्रीतिः [prītiḥ]
= satisfaction = प्रीति (f.) + कर्तरि to स्यात् 1/1
·
स्यात् [syāt] = would
be = अस् (2P) to be + विधिलिङ्/कर्तरि/III/1
·
जनार्दन [janārdana]
= Janārdana (Kṛṣṇa) = जनार्दन + सम्बोधने 1/1
o
Chastiser of the people given to
improper way of life
o
जन + अर्द् (1P) to kill + ल्यु 3.1.134
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।
·
पापम् [pāpam] =
result of wrong action = पाप (n.) + कर्तरि to आश्रयेत् 1/1
·
एव [eva] = only = अव्ययम्
·
आश्रयेत् [āśrayet]
= will come = आ + श्रि (1U) to fall
onto + विधिलिङ्/कर्तरि/III/1
·
अस्मान् [asmān]
= us = अस्मद् (pron. m.)
+ कर्मणि to आश्रयेत् 2/3
·
हत्वा [hatvā] = having killed = अव्ययम्
o
हन् to kill, destroy +
क्त्वा
·
एतान् [etān] =
these = एतद् (pron. m.)
+ कर्मणि to हत्वा 2/3
·
आततायिनः [ātatāyinaḥ]
= wrongdoers = आततायिन् (m.) + कर्मणि to हत्वा 2/3
Sentence 1:
जनार्दन S/1 धार्तराष्ट्रान् 2/3 निहत्य 0 नः 6/3 प्रीतिः 1/1 का 1/1 स्यात् III/1 ।
O Janārdana
(जनार्दन S/1) ! What (का 1/1) will be (स्यात् III/1) the satisfaction (प्रीतिः 1/1) for us (नः 6/3), having killed (निहत्य 0) the sons of Dhṛtarāṣṭra (धार्तराष्ट्रान् 2/3)?
Sentence 2:
एतान् 2/3 आततायिनः 2/3 हत्वा 0 पापम् 1/1 एव 0 अस्मान् 2/3 आश्रयेत् III/1 ॥३६॥
Having killed (हत्वा 0) these (एतान् 2/3) wrongdoers
(आततायिनः 2/3), only (एव 0) result of wrong action (पापम् 1/1) will fall (आश्रयेत् III/1) upon us (अस्मान् 2/3).