समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६.१३॥
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6.13||
समम् 2/1
कायशिरोग्रीवम् 2/1 धारयन् 1/1 अचलम् 0 स्थिरः
1/1 ।
सम्प्रेक्ष्य 0 नासिकाग्रम्
2/1 स्वम् 2/1 दिशः 2/3 च 0 अनवलोकयन् 1/1॥६.१३॥
·
तत्र [tatra] = there = अव्ययम्
·
समम् [samam] = same (in one line) = सम (n.) + adjective to कायशिरोग्रीवम्
2/1
·
कायशिरोग्रीवम्
[kāyaśirogrīvam] = the
body, head, and neck = कायशिरोग्रीव (n.) + कर्मणि to धारयन् 2/1
o
कायः च शिरः
च ग्रीवा च कायशिरोग्रीईवम् (SD) ।
·
धारयन् [dhārayan] = holding = धारयत्
(m.) + adjective to प्रशान्तात्मा
(in the next verse) 1/1
·
अचलम् [acalam] = not moving = अव्ययम्
·
स्थिरः [sthiraḥ] = firm = स्थिर
(m.) + adjective to प्रशान्तात्मा
(in the next verse) 1/1
·
सम्प्रेक्ष्य
[samprekṣya] = looking = अव्ययम्
·
नासिकाग्रम् [nāsikāgram] = at the tip of nose = नासिकाग्र
(n.) + कर्मणि to सम्प्रेक्ष्य 2/1
o
नासिकयाः
अग्रम् (6T) ।
·
स्वम् [svam] = one’s = स्व (n.) + adjective to नासिकाग्रम् 2/1
·
दिशः [diśaḥ] = all directions = दिश् (f.) + कर्मणि to अनवलोकयन् 2/3
·
अनवलोकयन् [anavalokayan] = not looking= अनवलोकयत् (m.) + adjective to प्रशान्तात्मा
(in the next verse) 1/1
Holding oneself firm without moving,
holding the body, head, and neck in one straight line, (as though) looking at
the tip of one's nose and not looking in all directions, …
Sentence 1:
समम् 2/1 कायशिरोग्रीवम् 2/1 धारयन् 1/1 अचलम् 0 स्थिरः 1/1 ।
स्वम् 2/1 नासिकाग्रम् 2/1 सम्प्रेक्ष्य 0 दिशः 2/3 च 0 अनवलोकयन् 1/1॥६.१३॥
Holding (धारयन् 1/1) oneself without moving (अचलम् 0 स्थिरः 1/1), the body, head, and neck (कायशिरोग्रीवम् 2/1) in one straight line (समम् 2/1), (as though) looking (सम्प्रेक्ष्य 0) at the tip of one's nose (स्वम् 2/1 नासिकाग्रम् 2/1) and (च 0) not looking (अनवलोकयन् 1/1) in all
directions (दिशः 2/3), …
बाह्यमासनमुक्तम्; अधुना शरीरधारणं कथम् इत्युच्यते --
।।6.13।। --
समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं तत् समं धारयन् अचलं च। समं
धारयतः चलनं संभवति; अतः विशिनष्टि -- अचलमिति। स्थिरः स्थिरो भूत्वा इत्यर्थः। स्वं
नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेव इति। इवशब्दो लुप्तो द्रष्टव्यः। न हि स्वनासिकाग्रसंप्रेक्षणमिह विधित्सितम्। किं तर्हि? चक्षुषो दृष्टिसंनिपातः। स च
अन्तःकरणसमाधानापेक्षो विवक्षितः। स्वनासिकाग्रसंप्रेक्षणमेव चेत् विवक्षितम्, मनः तत्रैव
समाधीयेत, नात्मनि। आत्मनि हि मनसः समाधानं वक्ष्यति 'आत्मसंस्थं मनः कृत्वा (गीता
6।25)' इति। तस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसंनिपात एव 'संप्रेक्ष्य' इत्युच्यते। दिशश्च
अनवलोकयन् दिशां च अवलोकनमन्तराकुर्वन् इत्येतत्।।