Showing posts with label 1305 13th Chapter 5th Sloka. Show all posts
Showing posts with label 1305 13th Chapter 5th Sloka. Show all posts

Wednesday, May 10, 2023

13th Chapter 5th Sloka

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३.५ ॥

 

mahābhūtānyahaṅkāro buddhiravyaktameva ca |

indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || 13.5 ||

 

महाभूतानि 1/3 अहङ्कारः 1/1 बुद्धिः 1/1 अव्यक्तम् 1/1 एव 0 0

इन्द्रियाणि 1/3 दश 1/3 एकम् 1/1 0 पञ्च 1/3 0 इन्द्रियगोचराः 1/3 ॥ १३.५ ॥

 

The (five) subtle elements, the hiraṇyagarbha, the samaṣṭi-buddhi, the unmanifest cause (māyā), the ten organs and one (mind), the five sense objects, ...

 

·       महाभूतानि [mahābhūtāni] = the (five) subtle elements = महाभूत (n.) + प्रातिपदिकार्थमात्रे 1/3

·       अहङ्कारः [ahaṅkāraḥ] = the hiraṇyagarbha = अहङ्कार (m.) + प्रातिपदिकार्थमात्रे 1/1

·       बुद्धिः [buddhiḥ] = the samaṣṭi-buddhi = बुद्धि (f.) + प्रातिपदिकार्थमात्रे 1/1

·       अव्यक्तम् [avyaktam] = the unmanifest cause (māyā) = अव्यक्त (n.) + प्रातिपदिकार्थमात्रे 1/1

·       एव [eva] = indeed = अव्ययम्

·       [ca] = and = अव्ययम्

·       इन्द्रियाणि [indriyāṇi] = organs = इन्द्रिय (n.) + प्रातिपदिकार्थमात्रे 1/3

·       दश [daśa] = ten = दशन् n. + adj. to इन्द्रियाणि 1/3

·       एकम् [ekam] = one (mind) = एक (pron.) n. + adj. to (मनस्) 1/1

·       [ca] = and = अव्ययम्

·       पञ्च [pañca] = five = पञ्चन् m. + adj. to इन्द्रियगोचराः 1/3

·       [ca] = and = अव्ययम्

·       इन्द्रियगोचराः [indriyagocarāḥ] = sense objects = इन्द्रियगोचर (m.) + प्रातिपदिकार्थमात्रे 1/3

o   इन्द्रियाणां गोचराः इन्द्रियगोचराः (6T)

 

 

The (five) subtle elements, the hiraṇyagarbha, the samaṣṭi-buddhi, the unmanifest cause (māyā), the ten organs and one (mind), the five sense objects, ...

 

The (five) subtle elements (महाभूतानि 1/3), the hiraṇyagarbha (अहङ्कारः 1/1), the samaṣṭi-buddhi (बुद्धिः 1/1), the unmanifest cause (अव्यक्तम् 1/1 एव 0 0) (māyā), the ten (दश 1/3) organs (इन्द्रियाणि 1/3) and ( 0) one (एकम् 1/1) (mind), the five (पञ्च 1/3) sense objects (इन्द्रियगोचराः 1/3 0), ...

 

स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान्

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वात् भूतानि च सूक्ष्माणि । स्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहङ्कारः महाभूतकारणम् अहंप्रत्ययलक्षणः । अहङ्कारकारणं बुद्धिः अध्यवसायलक्षणा । तत्कारणम् अव्यक्तमेव , न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् । एवशब्दः प्रकृत्यवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः । च-शब्दः भेदसमुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मनिवर्तकत्वात् कर्मेन्द्रियाणि ; तानि दश । एकं; किं तत् ? मनः एकादशं सङ्कल्पाद्यात्मकम् । पञ्च इन्द्रियगोचराः शब्दादयो विषयाः । तानि एतानि साङ्ख्याः चतुर्विंशतितत्त्वानि आचक्षते ॥ ५ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.