भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः
।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥१-८॥
bhavān
bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā
vikarṇaśca saumadattirjayadrathaḥ ||1-8||
भवान् 1/1 भीष्मः 1/1 च 0 कर्णः 1/1 च 0 कृपः 1/1 च 0 समितिञ्जयः 1/1 ।
अश्वत्थामा
1/1 विकर्णः 1/1 च 0 सौमदत्तिः 1/1 जयद्रथः 1/1 ॥१-८॥
·
भवान् [bhavān] = you = भवत् (pron. m.) + प्रातिपदिकार्थे 1/1
·
भीष्मः [bhīṣmaḥ] = Bhīṣma = भीष्म (m.) + प्रातिपदिकार्थे
1/1
·
च [ca] = and = अव्ययम्
·
कर्णः [karṇaḥ] = Karṇa = कर्ण (m.) + प्रातिपदिकार्थे
1/1
·
च [ca] = and = अव्ययम्
·
कृपः [kṛpaḥ] = Kṛpa = कृप (m.) + प्रातिपदिकार्थे
1/1
·
च [ca] = and = अव्ययम्
·
समितिञ्जयः [samitiñjayaḥ] = one who is always victorious = समितिञ्जय (m.) + प्रातिपदिकार्थे
1/1
o
समितिं (battle)
जयति इति समितिञ्जयः ।
= समिति + जि (1P to win) + खच् By 3.2.46
= समिति + मुँम् + जय By 6.3.67
·
अश्वत्थामा [aśvatthāmā] = Aśvatthāman= अश्वत्थामन् (m.) + प्रातिपदिकार्थे
1/1
·
विकर्णः [vikarṇaḥ] = Vikarṇa = विकर्ण (m.) + प्रातिपदिकार्थे 1/1
·
च [ca] = and = अव्ययम्
·
सौमदत्तिः [saumadattiḥ] = Saumadatti = सौमदत्ति (m.) + प्रातिपदिकार्थे
1/1
·
जयद्रथः [jayadrathaḥ] = Jayadratha = जयद्रथ (m.) + प्रातिपदिकार्थे 1/1
॥ १-८॥