मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८.५८ ॥
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi|
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi || 18.58 ||
मच्चित्तः 1/1 सर्वदुर्गाणि 23/ मत्प्रसादात् 5/1 तरिष्यसि II/1।
अथ 0 चेत् 0 त्वम् 1/1 अहङ्कारात् 5/1 न 0 श्रोष्यसि II/1 विनङ्क्ष्यसि II/1॥ १८.५८ ॥
· मच्चित्तः [macchittaḥ] = one whose mind is in me = मच्चित्त (m.) + adj. to (त्वम्) 1/1
· सर्वदुर्गाणि [sarvadurgāṇi] = all difficulties = सर्वदुर्ग (n.) + कर्मणि to तरिष्यसि 2/3
· मत्प्रसादात् [matprasādāt] = because of my grace = मत्प्रसाद (m.) + हेतौ 5/1
· तरिष्यसि [tariṣyasi] = you will cross = तॄ (1P) to cross + लृट्/कर्तरि/II/1
· अथ [atha] = then, now, moreover = अव्ययम्
· चेत् [cet] = if = अव्ययम्
· त्वम् [tvam] = you = युष्मद् (pron.) + कर्तरि to विनङ्क्ष्यसि 1/1
· अहङ्कारात् [ahaṅkārāt] = because of egotism = अहङ्कार (m.) + हेतौ 5/1
· न [na] = not = अव्ययम्
· श्रोष्यसि [śroṣyasi] = you will listen = श्रु (5P) to listen + लृट्/कर्तरि/II/1
· विनङ्क्ष्यसि [vinaṅkṣyasi] = you will perish = वि + नश् (4P) to perish + लृट्/कर्तरि/II/1
Being one whose mind is always in me, you will cross all difficulties because of my grace. If, because of egotism, you do not listen (to me), you will perish.
Sentence 1:
मच्चित्तः 1/1 (सन्) मत्प्रसादात् 5/1 सर्वदुर्गाणि 2/3 तरिष्यसि II/1।
Being one whose mind is always in me (मच्चित्तः 1/1), you will cross (तरिष्यसि II/1) all difficulties (सर्वदुर्गाणि 2/3) because of my grace (मत्प्रसादात् 5/1).
Sentence 2:
अथ 0 त्वम् 1/1 अहङ्कारात् 5/1 न 0 श्रोष्यसि II/1 चेत् 0 विनङ्क्ष्यसि II/1॥
If (अथ 0 चेत् 0), because of egotism (अहङ्कारात् 5/1), you (त्वम् 1/1) do not listen (न 0 श्रोष्यसि II/1) (to me), you will perish (विनङ्क्ष्यसि II/1).
मच्चित्तः 1/1 सर्वदुर्गाणि 2/3 सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् 5/1 तरिष्यसि II/1 अतिक्रमिष्यसि । अथ 0 चेत् 0 यदि त्वम् 1/1 मदुक्तम् अहङ्कारात् 5/1 “पण्डितः अहम्” इति न 0 श्रोष्यसि II/1 न ग्रहीष्यसि, ततः त्वं विनङ्क्ष्यसि II/1 विनाशं गमिष्यसि ॥ १८.५८ ॥