यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥६.२॥
yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasannyastasaṅkalpo yogī bhavati kaścana ||6.2||
यम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 योगम् 2/1 तम् 2/1 विद्धि II/1 पाण्डव S/1 ।
न 0 हि 0 असन्न्यस्तसङ्कल्पः 1/1 योगी 1/1 भवति III/1 कश्चन 0 ॥६.२॥
·
यम् [yam] = the one which= यद् (m.) + adjective to सन्न्यासम् 2/1
·
सन्न्यासम् [sannyāsam] = renounciation = सन्न्यास (m.) + कर्मणि to प्राहुः 2/1
o
सम् + नि + अस् to renounce + घञ्
·
इति [iti] = thus = अव्ययम्
·
प्राहुः [prāhuḥ]
= said = प्र + ब्रू (2U) to say + लिट्/कर्तरि/III/3
·
तम् [tam] = that = तद् (m.) + adjective to योगम् 2/1
·
योगम् [yogam] = yoga = योग (m.) + कर्मणि to विद्धि 2/1
o
युज् to
connect + घञ्
·
विद्धि [viddhi]
= May you know = विद् (2P) to know + लोट्/कर्तरि/II/1
·
पाण्डव [pāṇḍava] = O! son of Pāṇḍu! = पाण्डव (m.) + सम्बोधने 1/1
·
न [na] = not = अव्ययम्
·
हि [hi] = because = अव्ययम्
·
असन्न्यस्तसङ्कल्पः
[asannyastasaṅkalpaḥ] = one who has not given up desires = असन्न्यस्तसङ्कल्प
(m.) + 1/1
o
न सन्न्यस्ताः सङ्कल्पाः यस्य सः असन्न्यस्तसङ्कल्पः (N16B) ।
·
योगी [yogī] = yogī = योगिन् (m.) + 1/1
·
भवति [bhavati] = is = भू (1P) to be + लट्/कर्तरि/III/1
·
कश्चन [kaścana] = any body = अव्ययम्
o
कः + चन
What they say as renunciation, know
that to be karma yoga, O Pāṇḍava, because, any one who has
not given up desires (for limited results like heaven, etc.) does not become a
karma yogī.
Sentence 1:
यम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 तम् 2/1 योगम् 2/1 विद्धि II/1 पाण्डव S/1 ।
न 0 हि 0 कश्चन 0 असन्न्यस्तसङ्कल्पः 1/1 योगी 1/1 भवति III/1 ॥६.२॥
What (यम् 2/1) they say (प्राहुः III/3) as (इति 0) renunciation (सन्न्यासम् 2/1), know (विद्धि II/1) that (तम् 2/1) to be karma yoga (योगम् 2/1), O Pāṇḍava (पाण्डव S/1), because (हि 0), any one (कश्चन 0) who has not given
up desires (असन्न्यस्तसङ्कल्पः 1/1) (for limited
results like heaven, etc.) does not (न 0) become (भवति III/1) a karma yogī (योगी 1/1).
ननु 0 च 0 निरग्नेः 6/1 अक्रियस्य 6/1 एव 0 श्रुति-स्मृति-योगशास्त्रेषु 7/3 संन्यासित्वम् 1/1 योगित्वम् 1/1 च 0 प्रसिद्धम् 1/1। कथम् 0 इह 0 साग्नेः 6/1 सक्रियस्य 6/1 च 0 संन्यासित्वम् 1/1 योगित्वम् 1/1 च 0 अप्रसिद्धम् 1/1 उच्यते III/1 इति 0। न 0 एषः
1/1 दोषः 1/1, कयाचित् 0 गुणवृत्त्या 3/1 उभयस्य 6/1 संपिपादयिषितत्वात् 5/1। तत् 1/1 कथम् 1/1? कर्मफल-संकल्प-संन्यासात् 5/1 संन्यासित्वम् 1/1, योग-अङ्गत्वेन 3/1 च 0 कर्म-अनुष्ठानात् 5/1 कर्मफल-संकल्पस्य 6/1 च 0 चित्त-विक्षेप-हेतोः
6/1 परित्यागात् 5/1 योगित्वम् 1/1 च 0 इति 0 गौणम् 1/1 उभयम् 1/1; न 0 पुनः 0 मुख्यम् 1/1 संन्यासित्वम् 1/1 योगित्वम् 1/1 च 0 अभिप्रेतम् 1/1 इति 0 एतम् 2/1 अर्थम् 2/1
दर्शयितुम् 0 आह III/1 –
यम् 2/1 सर्वकर्म-तत्फल-परित्याग-लक्षणम् 2/1 परमार्थसंन्यासम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 श्रुतिस्मृतिविदः 1/3, योगम् 2/1 कर्म-अनुष्ठान-लक्षणम् 2/1 तम् 2/1 परमार्थसंन्यासम् 2/1 विद्धि II/1 जानीहि II/1 हे 0 पाण्डव S/1। कर्मयोगस्य
6/1 प्रवृत्तिलक्षणस्य 6/1 तद्विपरीतेन
3/1 निवृत्तिलक्षणेन 3/1 परमार्थसंन्यासेन 3/1 कीदृशम् 2/1 सामान्यम् 2/1 अङ्गीकृत्य 0 तद्भावः 1/1 उच्यते III/1 इति 0 अपेक्षायाम् 7/1 इदम् 1/1 उच्यते III/1 – अस्ति III/1 हि 0 परमार्थसंन्यासेन 3/1 सादृश्यम् 1/1 कर्तृद्वारकम् 1/1 कर्मयोगस्य 6/1 । यः 1/1 हि 0 परमार्थसंन्यासी
1/1 सः 1/1 त्यक्तसर्वकर्मसाधनतया 3/1 सर्वकर्मतत्फलविषयम् 2/1 संकल्पम् 2/1 प्रवृत्ति-हेतु-काम-कारणम् 2/1 संन्यस्यति III/1। अयम् 1/1
अपि 0 कर्मयोगी 1/1 कर्म 2/1 कुर्वाणः 1/1 एव 0 फलविषयम् 2/1 संकल्पंम् 2/1 संन्यस्यति III/1 इति 0 एतम् 2/1 अर्थम् 2/1
दर्शयिष्यन् 1/1 आह III/1 – न 0 हि 0 यस्मात् 5/1 असन्न्यस्तसङ्कल्पः 1/1 असंन्यस्तः 1/1 अपरित्यक्तः 1/1 फलविषयः 1/1 संकल्पः 1/1 अभिसंधिः 1/1 येन 3/1 सः 1/1 असंन्यस्तसंकल्पः
1/1 कश्चन 0 कश्चित् 0 अपि 0 कर्मी 1/1 योगी 1/1 समाधानवान् 1/1 भवति III/1 न 0 संभवति III/1 इत्यर्थः 1/1, फलसंकल्पस्य 6/1 चित्त-विक्षेप-हेतुत्वात् 5/1। तस्मात् 5/1 यः 1/1 कश्चन 0 कर्मी 1/1
संन्यस्त-फल-संकल्पः 1/1 भवेत् III/1 सः 1/1 योगी 1/1 समाधानवान्
1/1 अविक्षिप्त-चित्तः 1/1 भवेत् III/1, चित्तविक्षेपहेतोः 6/1 फलसंकल्पस्य 6/1 संन्यस्तत्वात् 5/1 इति 0 अभिप्रायः 1/1॥