यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३.३० ॥
yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva ca vistāraṃ brahma sampadyate tadā || 13.30 ||
यदा 0 भूतपृथग्भावम् 2/1 एकस्थम् 2/1 अनुपश्यति III/1 ।
ततः 0 एव 0 च 0 विस्तारम् 2/1 ब्रह्म 2/1 सम्पद्यते III/1 तदा 0 ॥ १३.३० ॥
When one sees clearly, the condition of distinction in the beings, as having its existence in one (ātman), and from that alone is its projection (distinction), then he gains Brahman.
When (यदा 0) one sees clearly (अनुपश्यति III/1), the condition of distinction in the beings (भूतपृथग्भावम् 2/1), as having its existence in one (ātman) (एकस्थम् 2/1), and (च 0) from that (ततः 0) alone (एव 0) is its projection (विस्तारम् 2/1) (distinction), then (तदा 0) he gains (सम्पद्यते III/1) Brahman (ब्रह्म 2/1).
· यदा [yadā] = when = अव्ययम्
o यस्मिन् काले । यद् + ङि + दा 5.3.15 सर्वैकान्यकिंयत्तदः काले दा । ~ सप्तम्याः
· भूतपृथग्भावम् [bhūtapṛthagbhāvam] = the condition of distinction in the beings = भूतपृथग्भाव (m.) + कर्मणि to अनुपश्यति 2/1
o भूतानां पृथग्भावः भूतपृथग्भावः (6T), तम् ।
· एकस्थम् [ekastham] = having its existence in one (ātman) = एकस्थ m. + O.C. भूतपृथग्भावम् 2/1
o एकस्मिन् तिष्ठति । एक + ङि + स्था + क 3.2.4 सुपि स्थः । ~ कः
· अनुपश्यति [anupaśyati] = sees = अनु + दृश् + लट्/कर्तरि/III/1
o शास्त्राचार्योपदेशम् अनु पश्यति ।
· ततः [tataḥ] = from that = अव्ययम्
o तद् + ङसिँ + तसिँल् 5.3.7 पञ्चम्यास्तसिल् । ~ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः
· एव [eva] = alone = अव्ययम्
· च [ca] = and = अव्ययम्
· विस्तारम् [vistāram] = projection = विस्तार (m.) + कर्मणि to अनुपश्यति 2/1
· ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्मणि to सम्पद्यते 2/1
· सम्पद्यते [sampadyate] = gains = सम् + पद् to obtain + लट्/कर्तरि/III/1
· तदा [tadā] = then = अव्ययम्
अन्वयः
यदा 0 भूतपृथग्भावम् 2/1 एकस्थम् 2/1, ततः 0 एव 0 च 0 विस्तारम् 2/1, अनुपश्यति III/1, तदा 0 ब्रह्म 2/1 सम्पद्यते III/1 ॥
भाष्यम्
पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति —
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥
यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्मिन् आत्मनि स्थितं एकस्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यति ‘आत्मैव इदं सर्वम्’ (छा. उ. ७ । २५ । २) इति, तत एव च तस्मादेव च विस्तारं उत्पत्तिं विकासम् ‘आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नम्’ (छा. उ. ७ । २६ । १) इत्येवमादिप्रकारैः विस्तारं यदा पश्यति, ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः ॥ ३० ॥