रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२.६४॥
rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||2.64||
रागद्वेषवियुक्तैः 3/3 तु 0 विषयान् 2/3 इन्द्रियैः 3/3 चरन् 1/1 ।
आत्मवश्यैः 3/3 विधेयात्मा 1/1 प्रसादम् 2/1 अधिगच्छति III/1 ॥२.६४॥
· रागद्वेषवियुक्तैः [rāgadveṣaviyuktaiḥ] = free from likes and dislikes = रागद्वेषवियुक्त (n.) adj. to इन्द्रियैः + 3/3
· तु [tu] = whereas = अव्ययम्
· विषयान् [viṣayān] = the world of objects = विषय (m.) + 2/3
· इन्द्रियैः [indriyaiḥ] = sense organ = इन्द्रिय (n.) + 3/3
· चरन् [caran] = moving = चरत् (m.) adj. to विधेयात्मा + 1/1
o चर् to move + शतृ (लट्/कर्तरि) = one who is moving
· आत्मवश्यैः [ātmavaśyaiḥ] = under one’s control = आत्मवश्यै adj. to इन्द्रियैः (n.) + 3/3
o आत्मनः वश्यानि आत्मवस्यानि (6P) तैः ।
· विधेयात्मा [vidheyātmā] = one whose mind is controlled = विधेयात्मन् (m.) + 1/1
o इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः (116B)
o वि + धा to command, ordain + यत् (कर्मणि + ...able, fit to be …ed)
· प्रसादम् [prasādam] = tranquillity = प्रसाद (m.) + 2/1
· अधिगच्छति [adhigacchati] = attains = अधि + गम् (to gain) + लट्/कर्तरि/III/1
Whereas, one whose mind is controlled moving in the world of objects with the sense organs under his or her control, free from likes and dislikes attains tranquillity.
Sentence 1:
विधेयात्मा 1/1 तु 0 आत्मवश्यैः 3/3 रागद्वेषवियुक्तैः 3/3 इन्द्रियैः 3/3 विषयान् 2/3 चरन् 1/1 प्रसादम् 2/1 अधिगच्छति III/1 ॥२.६४॥
Whereas (तु 0), one whose mind is controlled (विधेयात्मा 1/1) moving (चरन् 1/1) in the world of objects (विषयान् 2/3) with the sense organs (इन्द्रियैः 3/3) under his or her control (आत्मवश्यैः 3/3), free from likes and dislikes (रागद्वेषवियुक्तैः 3/3) attains (अधिगच्छति III/1) tranquillity (प्रसादम् 2/1).
सर्व-अनर्थस्य 6/1 मूलम् 1/1 उक्तम् 1/1 विषयाभिध्यानम् 1/1। अथ 0 इदानीम् 0 मोक्ष-कारणम् 1/1 इदम् 1/1 उच्यते III/1 –
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥2.64॥
रागद्वेषवियुक्तैः 3/3 रागः 1/1 च 0 द्वेषः 1/1 च 0 रागद्वेषौ 1/2, तत्पुरःसरा f1/1 हि 0 इन्द्रियाणाम् 6/3 प्रवृत्तिः f1/1 स्वाभाविकी f1/1, तत्र 0 यः 1/1 मुमुक्षुः 1/1 भवति III/1 सः 1/1 ताभ्याम् 3/2 (रागद्वेषाभ्याम् 3/2) वियुक्तैः 3/3 श्रोत्रादिभिः 3/3 इन्द्रियैः करणे to चरन् 3/3 विषयान् कर्मणि to चरन् 2/3 अवर्जनीयान् 2/3 चरन् 1/1 उपलभमानः 1/1 आत्मवश्यैः 3/3 [आत्मनः 6/1 वश्यानि 1/3 वशीभूतानि 1/3 इन्द्रियाणि 1/3] तैः 3/3 आत्मवश्यैः 3/3 विधेयात्मा 1/1 इच्छातः 0 विधेयः 1/1 (वि + धा to command + य ~ able) आत्मा 1/1 = अन्तःकरणम् 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 प्रसादम् 2/1 अधिगच्छति III/1 । प्रसादः 1/1 प्रसन्नता 1/1 स्वास्थ्यम् 1/1 ॥