अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||
अन्ये 1/3 च 0 बहवः 1/3 शूराः 1/3 मदर्थे 7/1 त्यक्तजीविताः 1/3 ।
नानाशस्त्रप्रहरणाः 1/3 सर्वे 1/3 युद्धविशारदाः 1/3 ॥१-९॥
· अन्ये [anye] = others = अन्य (pron. m.) + adj. to शूराः 1/3
· च [ca] = and = अव्ययम्
· बहवः [bahavaḥ] = many = बहु (m.) + adj. to शूराः 1/3
· शूराः [śūrāḥ] = warriors = शूर (m.) + कर्तरि to [सन्ति] 1/3
· मदर्थे [madarthe] = for my sake = मदर्थ (m.) + निमित्ते 7/1
o मम अर्थः मदर्थः । (6T) । तस्मिन् निमित्ते मदर्थे
· त्यक्तजीविताः [tyaktajīvitāḥ] = those whose lives are given up = त्यक्तजीवित (m.) + adj. to शूराः 1/3
o त्यक्ताः (given up) जीविताः (lives) यैः (by them) ते त्यक्तजीविताः । बहुव्रीहिसमासः 11B3
· नानाशस्त्रप्रहरणाः [nānāśastrapraharaṇāḥ] = having many kinds of weapons = नानाशस्त्रप्रहरण (m.) + adj. to शूराः 1/3
o नानाविधानि (various) शस्त्राणि (weapons used in hand) प्रहरणानि (weapons) येषां (of them) ते नानाशस्त्रप्रहरणाः। बहुव्रीहिसमासः 11B6
· सर्वे [sarve] = all = सर्व (pron. m.) + adj. to युद्धविशारदाः 1/3
· युद्धविशारदाः [yuddhaviśāradāḥ] = experts in warfare = युद्धविशारद (m.) + adj. to शूराः 1/3
o युद्धे (in warfare) विशारदाः (expert) । सप्तमीतत्पुरुषसमासः । 7T (not in the सूत्रम्)
॥१-९॥
… and (च 0) many (बहवः 1/3) other (अन्ये 1/3) warriors (शूराः 1/3), all (सर्वे 1/3) experts in warfare (युद्धविशारदाः 1/3), armed with many kinds of weapons (नानाशस्त्रप्रहरणाः 1/3), who are determined to give up their lives (त्यक्तजीविताः 1/3) for my sake (मदर्थे 7/1) (are present on our side).
अन्ये 1/3 च 0 बहवः 1/3 शूराः 1/3 सर्वे 1/3 युद्धविशारदाः 1/3 नानाशस्त्रप्रहरणाः 1/3 मदर्थे 7/1 त्यक्तजीविताः 1/3 ॥१-९॥