यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४.७॥
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4.7||
यदा 0 यदा 0 हि 0 धर्मस्य 6/1 ग्लानिः 1/1 भवति III/1 भारत S/1 ।
अभ्युत्थानम् 1/1 अधर्मस्य 6/1 तदा 0 आत्मानम् 2/1 सृजामि I/1 अहम् 1/1 ॥४.७॥
· यदा [yadā] = whenever = अव्ययम्
· यदा [yadā] = whenever = अव्ययम्
· हि [hi] = indeed = अव्ययम्
· धर्मस्य [dharmasya] = of right living = धर्म (m.) + सम्बन्धे to ग्लानिः 6/1
· ग्लानिः [glāniḥ] = decline = ग्लानि (f.) + 1/1
· भवति [bhavati] = there is = भू (1P) to be + लट्/कर्तरि/III/1
· अभ्युत्थानम् [abhyutthānam] = rise everywhere = अभ्युत्थान (m.) + 1/1
· अधर्मस्य [adharmasya] = of wrong living =आधर्म (m.) + सम्बन्धे to अभ्युत्थानम् 6/1
· तदा [tadā] = then = अव्ययम्
· आत्मानम् [ātmānam] = myself = आत्मन् (m.) + कर्मणि to सृजामि 2/1
· सृजामि [sṛjāmi] = I create = सृज् (6P) to create + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् (m.) + कर्तरि 1/1
O Arjuna, whenever there is a decline in right living and an increase in wrong living everywhere, I bring Myself into being (assume a physical body).
Sentence 1:
भारत S/1 यदा 0 यदा 0 हि 0 धर्मस्य 6/1 ग्लानिः 1/1 अधर्मस्य 6/1 अभ्युत्थानम् 1/1 भवति III/1 ।
तदा 0 अहम् 1/1 आत्मानम् 2/1 सृजामि I/1 ॥४.७॥
O Arjuna (भारत S/1), whenever (यदा 0 यदा 0 हि 0) there is (भवति III/1) a decline (ग्लानिः 1/1) in right living (धर्मस्य 6/1) and an increase (अभ्युत्थानम् 1/1) in wrong living (अधर्मस्य 6/1) everywhere, then (तदा 0) I (अहम् 1/1) bring Myself (आत्मानम् 2/1) into being (सृजामि I/1) (assume a physical body).
तत् 1/1 च 0 जन्म 1/1 कदा 0 किमर्थम् 0 च 0 इति 0 उच्यते III/1 –
यदा 0 यदा 0 हि 0 धर्मस्य 6/1 ग्लानिः 1/1 वर्णाश्रमादि-लक्षणस्य 6/1 प्राणिनाम् 6/3 अभ्युदय-निःश्रेयस-साधनस्य 6/1 भवति III/1 भारत S/1, अभ्युत्थानम् 1/1 उद्भवः 1/1 अधर्मस्य 6/1, तदा 0 तदा 0 आत्मानम् 2/1 सृजामि I/1 अहम् 1/1 मायया 3/1 ॥