त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ ११.१८ ॥
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam |
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me || 11.18 ||
त्वम् 1/1 अक्षरम् 1/1 परमम् 1/1 वेदितव्यम् 1/1 त्वम् 1/1 अस्य 6/1 विश्वस्य 6/1 परम् 1/1 निधानम् 1/1 ।
त्वम् 1/1 अव्ययः 1/1 शाश्वतधर्मगोप्ता 1/1 सनातनः 1/1 त्वम् 1/1 पुरुषः 1/1 मतः 1/1 मे 6/1 ॥ ११.१८ ॥
· त्वम् [tvam] = you = त्वद् (pron.) + कर्तरि to (असि) 1/1
· अक्षरम् [akṣaram] = imperishable = अक्षर (n.) + S.C. to त्वम् 1/1
· परमम् [paramam] = supreme = परम (n.) + adj. to अक्षरम् 1/1
· वेदितव्यम् [veditavyam] = to be known = वेदितव्य (n.) + adj. to अक्षरम् 1/1
o विद् (2P) to know + तव्य (object)
· त्वम् [tvam] = you = त्वद् (pron.) + कर्तरि to (असि) 1/1
· अस्य [asya] = of this = इदम् (pron.) + adj. to विश्वस्य 6/1
· विश्वस्य [viśvasya] = of the universe = विश्व (n.) + सम्बन्धे to निधानम् 6/1
· परम् [param] = supreme = परम (n.) + adj. to निधानम् 1/1
· निधानम् [nidhānam] = resting place, basis, support, cause = निधान (n.) + S.C. to त्वम् 1/1
· त्वम् [tvam] = you = त्वद् (pron.) + कर्तरि to (असि) 1/1
· अव्ययः [avyayaḥ] = immutable, unchanging = अव्यय (m.) + S.C. to त्वम् 1/1
· शाश्वतधर्मगोप्ता [śāśvatadharmagoptā] = protector of the eternal laws = शाश्वत-धर्म-गोप्तृ (m.) + S.C. to त्वम् 1/1
· सनातनः [sanātanaḥ] = eternal = सनातन (m.) + S.C. to त्वम् 1/1
· त्वम् [tvam] = you = त्वद् (pron.) + कर्तरि to (असि) 1/1
· पुरुषः [puruṣaḥ] = the person, the complete being = पुरुष (m.) + S.C. to त्वम् 1/1
· मतः [mataḥ] = regarded, thought, considered = मत (m.) S.C. to त्वम् 1/1
o मन् (4A) to think + क्त (past passive participle)
· मे [me] = by me, in my view = अस्मद् (pron.) + कर्तरि to मतः 6/1
It is my appreciation that you (are) imperishable, limitless, the one who is to be known; you are the ultimate basis (cause) of this world; you are not subject to change; you are the protector of the perennially eternal laws; you are eternal, and you are the complete being.
Sentence 1:
त्वम् 1/1 अक्षरम् 1/1 परमम् 1/1 वेदितव्यम् 1/1।
you (त्वम् 1/1) (are) imperishable (अक्षरम् 1/1), limitless (परमम् 1/1), the one who is to be known (वेदितव्यम् 1/1).
Sentence 2:
त्वम् 1/1 अस्य 6/1 विश्वस्य 6/1 परम् 1/1 निधानम् 1/1 ।
You (त्वम् 1/1) are the ultimate (परम् 1/1) basis (निधानम् 1/1) (cause) of this (अस्य 6/1) world (विश्वस्य 6/1).
Sentence 3:
त्वम् 1/1 अव्ययः 1/1 शाश्वतधर्मगोप्ता 1/1 सनातनः 1/1 ।
You (त्वम् 1/1) are not subject to change (अव्ययः 1/1); you are the protector of the perennially eternal laws (शाश्वतधर्मगोप्ता 1/1), and you are eternal (सनातनः 1/1).
Sentence 4:
त्वम् 1/1 पुरुषः 1/1 ।
You (त्वम् 1/1) are the complete being (पुरुषः 1/1).
Sentence 5:
(इति) मे 6/1 मतः 1/1 ॥
(That is) my (मे 6/1) appreciation (मतः 1/1).
इत एव ते योगशक्तिदर्शनात् अनुमिनोमि —
त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्यर्थः । किञ्च, त्वम् अव्ययः न तव व्ययो विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मे मम ॥ १८ ॥