देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥
devān bhāvayatānena te devā
bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ
paramavāpsyatha ||3.11||
देवान् 2/3 भावयत II/3 अनेन
3/1 ते 1/3 देवाः
1/3 भावयन्तु III/3 वः
2/3 ।
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1
अवाप्स्यथ II/3 ॥३.११॥
·
देवान् [devān] = deities = देव (m.) + 2/3
·
भावयत [bhāvayata]
= May you propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/II/3
·
अनेन [anena] = with this (yajña) = इदम् (pron. m.) + 3/1
·
ते [te] = those = तद् (pron. m.) + 1/3
·
देवाः [devāḥ] = deities = देव (m.) + 1/3
·
भावयन्तु [bhāvayantu]
= May they propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/III/3
·
वः [vaḥ] = you = युष्मद् (pron. m.) + 2/3
·
परस्परम् [parasparam]
= mutually = अव्ययम्
·
भावयन्तः [bhāvayantaḥ]
= propitiating = भावयत् (m.) + 1/3
o
भू + णिच्
+ शतृँ (लट्/कर्तरि)
= भावयत्
·
श्रेयः [śreyaḥ]
= what is good
for you = श्रेयस् (n.) + 2/1
·
परम् [param] = highest = पर (pron. n.) + 2/1
·
अवाप्स्यथ [avāpsyatha]
= you shall gain = अव + आप् to gain + लृट्/कर्तरि/II/3
Propitiate the
deities with this (yajña). May those deities propitiate
you. Propitiating one another, you shall gain the highest good (mokṣa).
Sentence 1:
अनेन 3/1 देवान् 2/3 भावयत
II/3
Propitiate (भावयत II/3) the deities (देवान् 2/3) with this (अनेन 3/1) (yajña).
Sentence 2:
ते 1/3 देवाः 1/3 वः
2/3 भावयन्तु III/3 ।
May those (ते 1/3) deities (देवाः 1/3) propitiate (भावयन्तु III/3) you (वः 2/3).
Sentence 3:
परस्परम् 0 भावयन्तः 1/3 परम्
2/1 श्रेयः 2/1 अवाप्स्यथ
II/3 ॥३.११॥
Propitiating (भावयन्तः 1/3) one another (परस्परम् 0), you shall gain (अवाप्स्यथ II/3) the highest (परम् 2/1) good (श्रेयः 2/1) (mokṣa).
कथम् 0 --
देवान् 2/3 भावयत II/3 अनेन
3/1 ते 1/3 देवाः
1/3 भावयन्तु III/3 वः
2/3 ।
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1
अवाप्स्यथ II/3 ॥३.११॥
देवान् 2/3 इन्द्रादीन्
2/3 भावयत II/3 वर्धयत II/3 अनेन 3/1 यज्ञेन 3/1। ते 1/3 देवाः 1/3 भावयन्तु III/3 आप्याययन्तु
III/3 वृष्ट्यादिना
3/1 वः 2/3 युष्मान् 2/3। एवम् 0 परस्परम् 0 अन्योन्यम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 मोक्ष-लक्षणम्
2/1 ज्ञान-प्राप्ति-क्रमेण
3/1 अवाप्स्यथ II/3।
स्वर्गम्
2/1 वा 0 परम् 2/1 श्रेयः 2/1 अवाप्स्यथ
II/3 ॥